प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः । तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते
तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः । राजपुत्रा ऊचुः महेश्वरि जयेशानि परमे करुणालये
वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते । क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि
कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि
विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि । एवं स्तुता भगवती राजपुत्रैर्महात्मभिः
प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । देव्युवाच राजपुत्रा महात्मानो भवन्तस्तपसा युताः
निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् । वरं मनोगतं सर्वं याचध्वमविलम्बितम्
प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् । राजपुत्रा ऊचुः देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी
भोगा अव्याहता कामं यशस्तेजो मतिश्च ह । अकुण्ठितत्वं सर्वेषामेष एव वरो हितः
देव्युवाच एवमस्तु च सर्वेषां भवतां यन्मनोगतम् । अथान्यदपि मे वाक्यं भूयतामादरादिदम्
भवन्तः सर्व एवैते मन्वन्तरपतीश्वराः । सन्तत्या दीर्घया भोगैरनेकैरपि सङ्गमः
अखण्डितबलैश्वर्यं यशस्तेजोविभूतयः । भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु
श्रीनारायण उवाच एवं तेभ्यो वरान्दत्त्वा भ्रामरी जगदम्बिका । अन्तर्धानं जगामाशु भक्त्या तैः संस्तुता सती
ते राजपुत्राः सर्वेऽपि तस्मिञ्जन्मन्यनुत्तमम् । राज्यं महीगतान्भोगान्बुभुजुश्च महौजसः
सन्ततिं चाखण्डितां ते समुत्पाद्य महीतले । वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन्
भवान्तरे क्रमेणैव सावर्णिपदभागिनः । प्रथमो दक्षसावर्णिर्नवमो मनुरीरितः
अव्याहतबलो देव्याः प्रसादादभवद्विभुः । द्वितीयो मेरुसावर्णिर्दशमो मनुरेव च
बभूव मन्वन्तरपो महादेवीप्रसादतः । तृतीयो मनुराख्यातः सूर्यसावर्णिनामकः
एकादशो महोत्साहस्तपसा स्वेन भावितः । चतुर्थश्चन्द्रसावर्णिर्द्वादशो मनुराड् विभुः
देवीसमाराधनेन जातो मन्वन्तरेश्वरः । पञ्चमो रुद्रसावर्णिस्त्रयोदशमनुः स्मृतः
महाबलो महासत्त्वो बभूव जगदीश्वरः । षष्ठश्च विष्णुसावर्णिश्चतुर्दशमनुः कृती
बभूव देवीवरतो जगतां प्रथितः प्रभुः । चतुर्दशैते मनवो महातेजोबलैर्युताः
देव्याराधनतः पूज्या वन्द्या लोकेषु नित्यशः । महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः
नारद उवाच केयं सा भ्रामरी देवी कथं जाता किमात्मिका । तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम्
न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् । अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः
श्रीनारायण उवाच शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम् । अचिन्त्याव्यक्तरूपाया विचित्रं मोक्षदायकम्
यद्यच्चरित्रं श्रीदेव्यास्तत्सर्वं लोकहेतवे । निर्व्याजया करुणया पुत्रे मातुर्यथा तथा
पूर्वं दैत्यो महानासीदरुणाख्यो महाबलः । पाताले दैत्यसंस्थाने देवद्वेषी महाखलः
स देवाञ्जेतुकामश्च चकार परमं तपः । पद्मसम्भवमुद्दिश्य स नस्त्राता भविष्यति
गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले । पक्वपर्णाशनो योगी सन्निरुध्य मरुद्गणम्