पालनं चैव संहारं सैव देवी दधाति हि । तां समाश्रय देवेशीं जगन्मोहनिवारिणीम्
महामायां पूज्यतमां सा कार्यं ते विधास्यति । श्रीनारायण उवाच इति राजा वचः श्रुत्वा मुनेः परमशोभनम्
देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः
देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत्
तदा प्रसन्ना देवेशी जगद्योनिः कृपावती । प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी
स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम्
देव्युवाच राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् । भविष्यति मया दत्तमस्मिन्नेव भवे तव
अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् । भानोर्जन्म समासाद्य सावर्णिर्भविता भवान्
तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् । सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान्
एवं दत्त्वा वरं देवी जगामादर्शनं तदा । सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः
एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च । एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात्
भ्रामरीचरित्रवर्णनम् श्रीनारायण उवाच अथातः श्रूयतां शेषमनूनां चित्रमुद्भवम् । यस्य स्मरणमात्रेण देवीभक्तिः प्रजायते
आसन्वैवस्वतमनोः पुत्राः षड् विमलोदयाः । करूषश्च पृषध्रश्च नाभागो दिष्ट एव च
शर्यातिश्च त्रिशङ्कुश्च सर्व एव महाबलाः । ततः षडेव ते गत्वा कालिन्द्यास्तीरमुत्तमम्
निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः । देव्या महीमयीं मूर्तिं विनिर्माय पृथक्पृथक्
विविधैरुपचारैस्तां पूजयामासुरादृताः । ततश्च सर्व एवैते तपःसारा महाबलाः
जीर्णपर्णाशना वायुभक्षणास्तोयजीवनाः । धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः
ततस्तेषामादरेणाराधनं कुर्वतां सदा । विमला मतिरुत्पन्ना सर्वमोहविनाशिनी
बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः । मत्या विमलया तेषामात्मन्येवाखिलं जगत्
दर्शनं सञ्जगामाशु तदद्भुतमिवाभवत् । एवं द्वादशवर्षान्ते तपसा जगदीश्वरी
प्रादुर्बभूव देवेशी सहस्रार्कसमद्युतिः । तां दृष्ट्वा विमलात्मानो राजपुत्राः षडेव ते
तुष्टुवुर्भक्तिनम्रान्तःकरणा भावसंयुताः । राजपुत्रा ऊचुः महेश्वरि जयेशानि परमे करुणालये
वाग्भवाराधनप्रीते वाग्भवप्रतिपादिते । क्लींकारविग्रहे देवि क्लींकारप्रीतिदायिनि
कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि
विष्ण्वर्कहरशक्रादिस्वरूपे भोगवर्धिनि । एवं स्तुता भगवती राजपुत्रैर्महात्मभिः
प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । देव्युवाच राजपुत्रा महात्मानो भवन्तस्तपसा युताः
निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात् । वरं मनोगतं सर्वं याचध्वमविलम्बितम्
प्रसन्नाहं प्रदास्यामि युष्माकं मनसि स्थितम् । राजपुत्रा ऊचुः देवि निष्कण्टकं राज्यं सन्ततिश्चिरजीविनी
भोगा अव्याहता कामं यशस्तेजो मतिश्च ह । अकुण्ठितत्वं सर्वेषामेष एव वरो हितः
देव्युवाच एवमस्तु च सर्वेषां भवतां यन्मनोगतम् । अथान्यदपि मे वाक्यं भूयतामादरादिदम्