तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः
एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तान्तमादितः
तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महान्तं दनुजाधिपः
ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश शृणु वचो धूम्राक्ष मम चादृतः
तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम । समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः
इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः । षष्ट्यासुराणां सहितः सहस्राणां महाबलः
तुहिनाचलमासाद्य देव्याः सविधमेव सः । उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे
शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि । नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति
इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा । उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल
राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः
भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी । ततः सैन्यं वाहनेन देव्या भग्नं महीपते
दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् । तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः
चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः । ततः कोपपरीतात्मा दैत्यराजः प्रतापवान्
चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः । ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः
देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् । तानापतत एवासौ जगद्धात्री मदोत्कटा
शूलं गहीत्वा वेगेन पातयामास भूतले । ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ
शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा । निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम्
देव्याश्च वशगौ जातौ निहतौ च तयासुरौ । इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी
विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा । एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः
काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च । परा परेश्वरी देवी जगत्सर्गं करोति च
पालनं चैव संहारं सैव देवी दधाति हि । तां समाश्रय देवेशीं जगन्मोहनिवारिणीम्
महामायां पूज्यतमां सा कार्यं ते विधास्यति । श्रीनारायण उवाच इति राजा वचः श्रुत्वा मुनेः परमशोभनम्
देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः
देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत्
तदा प्रसन्ना देवेशी जगद्योनिः कृपावती । प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी
स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम्
देव्युवाच राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् । भविष्यति मया दत्तमस्मिन्नेव भवे तव
अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् । भानोर्जन्म समासाद्य सावर्णिर्भविता भवान्
तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् । सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान्
एवं दत्त्वा वरं देवी जगामादर्शनं तदा । सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः