वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च । गायत्र्या महिमा यत्र तद्भागवतमिष्यते
भगवत्या इदं यस्मात्तस्माद्भागवतं विदुः । ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा
ऋतवागिति विख्यातो मुनिरासीन्महामतिः । तस्य पुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे
स तस्य जातकर्मादि क्रियाश्चक्रे यथाविधि । चूडोपनयनादींश्च संस्कारानपि सोऽकरोत्
यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः । तत एवाथ स मुनिः शोकरोगाकुलोऽभवत्
रोषलोभपरीतात्मा तथा मातापि तस्य च । बहुरागार्दिता नित्यं शुचा दुःखीकृता भृशम्
ऋतवाक्स मुनिश्चिन्तामवाप भृशदुःखितः । किमेततत्कारणं जातं पुत्रो मेऽत्यंतदुर्मतिः
कस्यचिन्मुनिपुत्रस्य बलात्पत्नीं जहार च । मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः
ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् । अपुत्रता वरं नॄणां न कदाचित्कुपुत्रता
पितॄन्कुपुत्रः स्वर्यातान्निरये पातयत्यपि । यावज्जीवेत्सदा पित्रोः केवलं दुःखदायकः
पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः । सुहृदां नोपकाराय नापकाराय वैरिणाम्
धन्यास्ते मानवा लोके सुपुत्रो यद्गृहे स्थितः । परोपकारशीलश्च पितुर्मातुः सुखावहः
कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः । कुपुत्रेणेह चामुत्र दुःखं निरययातनाः
कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया । कुभोजनेन दिवसः कुमित्रेण सुखं कुतः
स्कन्द उवाच। एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनिः । तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत
ऋतवागुवाच। भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत्प्रभो । ज्योतिःज्ञास्त्रस्य चाचार्य पुत्रदौःशील्यकारणम्
गुरुशुश्रूषया वेदा अधीता विधिवन्मया । ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत्कृतः
भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् । पंचयज्ञविधानं च मयाऽकारि यथाविधि
नरकाद्बिभ्यता विप्र न तु कामसुखेच्छया । गर्भाधानं च विधिवत्पुत्रप्राप्त्यै मया कृतम्
पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने । जातो दुःखावहः पित्रोर्दुःशीलो बंधुशोकदः
एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा । विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत्
गर्ग उवाच। मुने नैवापराधस्ते न मातुर्न कुलस्य च । रेवत्यंतं तु गण्डान्तं पुत्रदौःशील्यकारणम्
दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने । तेनैव तव दुःखाय नान्यो हेतुर्मनागपि
तद्दुःखशांतये ब्रह्मञ्जगतां मातरं शिवाम् । समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम्
गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः । रेवतीं तु शशापासौ व्योम्नः पततु रेवती
दत्ते शापे तु तेनाथ पूष्णो भं च पपात खात् । कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः
ख्यातो रैवतकश्चाभूत्तत्पातात्कुमुदाचल: । अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत्
दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः । समाराध्यांबिकां देवीं सुखसौभाग्यभागभूत्
स्कन्द उवाच। रेवत्यृक्षस्य यत्तेजस्तस्माज्जाता तु कन्यका । रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत्
अथ तां प्रमुचः कन्यां रेवतीकांतिसंभवाम् । दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः