प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् । एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता
कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्। प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी
व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् । शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः
त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना । तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः
बाधते सततं देवि तिरस्कृत्य निजौजसा । देव्युवाच देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च
स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी
जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् । देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम्
चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः । दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम्
कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ । देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद
अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन । तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम्
तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः । तादृशी नासुरी नारी न गन्धर्वी न दानवी
न मानवी नापि देवी यादृशी सा मनोहरा । एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः
दूतं सम्मेषयामास सुग्रीवं नाम दानवम् । स दूतस्त्वरितं गत्वा देव्याः सविधमादरात्
वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः । देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः
सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् । तदुक्तं शृणु मे देवि रत्नभोक्ताहमव्ययः
त्वं चापि रत्नभूतासि भज मां चारुलोचने । सर्वेषु यानि रत्नानि देवासुरनरेषु च
तानि मय्येव सुभगे भज मां कामजै रसैः । देव्युवाच सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम्
प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् । भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता
यो मे दर्पं विधुनुते यो मे बलमपोहति । यो मे प्रतिबलो भूयात्स एव मम भोगभाक्
तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः । गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि
तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः
एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तान्तमादितः
तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महान्तं दनुजाधिपः
ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश शृणु वचो धूम्राक्ष मम चादृतः
तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम । समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः
इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः । षष्ट्यासुराणां सहितः सहस्राणां महाबलः
तुहिनाचलमासाद्य देव्याः सविधमेव सः । उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे
शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि । नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति
इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा । उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल
राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः