प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः । एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत्
शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि । तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने
नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः । तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम्
वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा । सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये
पठितव्यं प्रयत्नेन नवरात्रचतुष्टये । वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने
पठितव्यं प्रयत्नेन विरोधो नात्र कस्यचित् । उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा
तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः । स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः
शृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः । किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः
वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः । वेदपाठसमं पाठे श्रवणे च तथैव हि
सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् । नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात्
इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः । पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम्
प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः । निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः
नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः । संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि
इति स मुनिवराणामग्रतः श्रावयित्वा सकलनिगमगुह्यं दौर्गमेतत्पुराणम् । नतमथ मुनिसङ्घं वर्धयित्वाऽऽशिषाम्बा- चरणकमलभृङ्गो निर्जगामाथ सूतः