अम्बामखफलेनापि पिता ते सुगतिं गतः । धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव
नरकादुद्धृतस्तातस्त्वया तु कुलभूषण । देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत्
सूत उवाच नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः । पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः
तवानुग्रहतो देव कृतार्थोऽहं महामुने । किं मया प्रतिकर्तव्यं नमस्कारादृते तव
अनुग्राह्यः सदैवाहमेवमेव त्वया मुने । इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च
उवाच वचनं श्लक्ष्णं भगवान् बादरायणः । राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम्
देवीभागवतं चैव पठ नित्यं समाहितः । अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः
अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् । सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च
देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् । सारमेतत्पुराणानां वेदानां चैव सर्वशः
मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते । समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम
पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय । पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः
इत्युक्त्वा नृपवर्यं तं जगाम मुनिराट् ततः । जग्मुश्चैव यथास्थानं धौम्यादिमुनयोऽमलाः
देवीभागवतस्यैव प्रशंसां चक्रुरुत्तमाम् । राजा शशास धरणीं ततः सन्तुष्टमानसः । देवीभागवतं चैव पठच्छृण्वन्तिरन्तरम्
श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम् सूत उवाच अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् । श्रीमद्भागवतं नाम वेदसिद्धान्तबोधकम्
उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने । शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा
तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे । अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम्
देवीभागवतं नाम पुराणं ग्रथितं पुरा । अद्यापि देवलोके तद्बहुविस्तीर्णमस्ति हि
नानेन सदृशं पुण्यं पवित्रं पापनाशनम् । पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः
पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः । व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः
लिखित्वा निजहस्तेन लेखकेनाथवा मुने । प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम्
दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् । सालङ्कृतां सवत्सां च कपिलां हेममालिनीम्
भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् । सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह
देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः । पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः
पुराणदानेनैतेन भूदानस्य फलं लभेत् । इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत्
नित्यं यः शृणुयाद्भक्त्या देवीभागवतं परम् । न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि
अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् । विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः
वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्गना । श्रवणादस्य तद्दोषान्निवर्तेत न संशयः
यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति । तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती
नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः । ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः
मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः । शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति