एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति
अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि
नवीनगृहनिर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्नेन कल्याणं तेन जायते
जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् व्यास उवाच इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ । नारायणेन यत्प्रोक्तं नारदाय महात्मने
श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् । कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः
कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै । खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम्
गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् । यथाविधिविधानेन जन्मसाफल्यदायकम्
सूत उवाच तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् । तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम्
दीक्षाविधिं विधानेन जग्राह नृपसत्तमः । तत आहूय धौम्यादीन्नवरात्रसमागमे
अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः । ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम्
श्रीदेव्यग्रेऽम्बिकाप्रीत्यै देवीभागवतं परम् । ब्राह्मणान्भोजयामासाप्यसंख्यातान्सुवासिनीः
कुमारीर्वटुकादींश्च दीनानाथांस्तथैव च । द्रव्यप्रदानैस्तान्सर्वान् सन्तोष्य वसुधाधिपः
समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि । तावदेव हि चाकाशान्नारदः समवातरत्
रणयन्महतीं वीणां ज्वलदग्निशिखोपमः । ससम्भमः समुत्थाय दृष्ट्वा तं नारदं मुनिम्
आसनाद्युपचारैश्च पूजयामास भूमिपः । कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम्
राजोवाच कुत आगमनं साधो ब्रूहि किं करवाणि ते । सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात्
इति राज्ञो वचः श्रुत्वा प्रोवाच मुनिसत्तमः । अद्याश्चर्यं मया दृष्टं देवलोके नृपोत्तम
तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविस्मितः । पिता ते दुर्गतिं प्राप्तो निजकर्मविपर्ययात्
स एवायं दिव्यरूपवपुर्भूत्वाधुनैव हि । देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः
विमानवरमारुह्य मणिद्वीपं गतोऽभवत् । देवीभागवतस्यास्य श्रवणोत्थफलेन च
अम्बामखफलेनापि पिता ते सुगतिं गतः । धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव
नरकादुद्धृतस्तातस्त्वया तु कुलभूषण । देवलोके स्फीतकीर्तिस्तवाद्य विपुलाभवत्
सूत उवाच नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः । पपात पादाम्बुजयोर्व्यासस्याद्भुतकर्मणः
तवानुग्रहतो देव कृतार्थोऽहं महामुने । किं मया प्रतिकर्तव्यं नमस्कारादृते तव
अनुग्राह्यः सदैवाहमेवमेव त्वया मुने । इति राज्ञो वचः श्रुत्वाप्याशीर्भिरभिनन्द्य च
उवाच वचनं श्लक्ष्णं भगवान् बादरायणः । राजन्सर्वं परित्यज्य भज देवीपदाम्बुजम्
देवीभागवतं चैव पठ नित्यं समाहितः । अम्बामखं सदा भक्त्या कुरु नित्यमतन्द्रितः
अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् । सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि च
देवीभागवतस्यास्य कलां नार्हन्ति षोडशीम् । सारमेतत्पुराणानां वेदानां चैव सर्वशः
मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते । समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम