अन्यैरशेषविबुधैर्मानिता सा जगन्मयी । तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः
नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता
महिषस्य वधार्थाय महानादं चकार ह । तेन नादेन महिषश्चकितोऽभूद्धरापते
आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः
शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् । चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ
बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः
योधैः परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी
जघान योधान्समरे देवी महिषमाश्रितान् । ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः
आससाद तदा देवीं तूर्णं मायाविशारदः । रूपान्तराणि सम्भेजे मायया दानवेश्वरः
तानि तान्यस्य रूपाणि नाशयामास सा तदा । ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम्
पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः । पातयामास महिषं देवी देवगणान्तकम्
हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश । तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः
एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी । राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत्
एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः । निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः
तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप । हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात्
देवा ऊचुः जय देवेशि भक्तानामार्तिनाशनकोविदे । दानवान्तकरूपे त्वमजरामरणेऽनघे
देवेशि भक्तिसुलभे महाबलपराक्रमे । विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे
सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि । महाताण्डवसुप्रीते मोददायिनि माधवि
प्रसीद देवदेवेशि प्रसीद करुणानिधे । निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे
उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् । एवं संस्तुवतां तेषां त्रिदशानां धरापते
प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् । एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता
कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्। प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी
व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् । शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः
त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना । तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः
बाधते सततं देवि तिरस्कृत्य निजौजसा । देव्युवाच देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च
स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी
जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् । देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम्
चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः । दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम्
कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ । देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद
अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन । तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम्