भजन्ति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः
सरूपतां गताः केचित्सार्ष्टितां च परे गताः । या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम्
समष्टयः स्थितास्तास्तु सेवन्ते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते
महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम् । कारणब्रह्मरूपां तां मायाशबलविग्रहाम्
इत्थं राजन् मया प्रोक्तं मणिद्वीपं महत्तरम् । न सूर्यचन्द्रौ नो विद्युत्कोटयोऽग्निस्तथैव च
एतस्य भासा कोट्यंशकोट्यंशेनापि ते समाः । क्यचिद्विद्रुमसकाशं क्वचिन्मरकतच्छवि
विद्युद्भानुसमच्छायं मध्यसूर्यसमं क्वचित् । विद्युत्कोटिमहाधारा सारकान्तिततं क्वचित्
क्वचित्सिन्दूरनीलेन्द्रमाणिक्यसदृशच्छवि । हीरसारमहागर्भधगद्धगितदिक्तटम्
कान्त्या दावानलसमं तप्तकाञ्चनसन्निभम् । क्वचिच्चन्द्रोपलोद्गारं सूर्योद्गारं च कुत्रचित्
रत्नशृङ्गिसमायुक्तं रत्नप्राकारगोपुरम् । रत्नपत्रै रत्नफलैर्वक्षैश्च परिमण्डितम्
नृत्यन्मयूरसङ्घैश्च कपोतरणितोज्ज्वलम् । कोकिलाकाकलीलापैः शुकलापैश्च शोभितम्
सुरम्यरमणीयाम्बुलक्षावधिसरोवृतम् । तन्मध्यभागविलसद्विकचद्रत्नपङ्कजैः
सुगन्धिभिः समन्तात्तु वासितं शतयोजनम् । मन्दमारुतसम्भिन्नचलद्द्रुमसमाकुलम्
चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम् । रत्नप्रभाभिरभितो धगद्धगितदिक्तटम्
वृक्षवातमहागन्धवातवातसुपूरितम् । धूपधूपायितं राजन् मणिदीपायुतोज्ज्वलम्
मणिजालकसच्छिद्रतरलोदरकान्तिभिः । दिङ्मोहजनकं चैतद्दर्पणोदरसंयुतम्
ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च । सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य वै
पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च । सकलाया दयायाश्च समाप्तिरिह भूपते
राज्ञ आनन्दमारभ्य ब्रह्मलोकान्तभूमिषु । आनन्दा ये स्थिताः सर्वे तेऽत्रैवान्तर्भवन्ति हि
इति ते वर्णितं राजन् मणिद्वीपं महत्तरम् । महादेव्याः परं स्थानं सर्वलोकोत्तमोत्तमम्
एतस्य स्मरणात्सद्यः सर्वं पापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रैव गच्छति
अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादिबाधा तत्र भवेन्न हि
नवीनगृहनिर्माणे वास्तुयागे तथैव च । पठितव्यं प्रयत्नेन कल्याणं तेन जायते
जनमेजयेनाम्बामखकरण-देवीभागवतश्रवणपूर्वकं स्वपित्रुद्धारवर्णनम् व्यास उवाच इति ते कथितं भूप यद्यत्पृष्टं त्वयानघ । नारायणेन यत्प्रोक्तं नारदाय महात्मने
श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्भुतम् । कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः
कुरु चाम्बामखं राजन् स्वपित्रुद्धरणाय वै । खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम्
गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् । यथाविधिविधानेन जन्मसाफल्यदायकम्
सूत उवाच तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम् । तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम्
दीक्षाविधिं विधानेन जग्राह नृपसत्तमः । तत आहूय धौम्यादीन्नवरात्रसमागमे
अम्बायज्ञं चकाराशु वित्तशाढ्यविवर्जितः । ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम्