दिव्यचूडामणिस्फारचञ्चच्चन्द्रकसूर्यका । उद्यत्कविसमस्वच्छनासाभरणभासुरा
चिन्ताकलम्बितस्वच्छमुक्तागुच्छविराजिता । पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनी
विचित्रविविधाकल्पा कम्बुसंकाशकन्धरा । दाडिमीफलबीजाभदन्तपङ्क्तिविराजिता
अनर्घ्यरत्नघटितमुकुटाञ्चितमस्तका । मत्तालिमालाविलसदलकाढ्यमुखाम्बुजा
कलङ्ककार्श्यनिर्मुक्तशरच्चन्द्रनिभानना । जाह्नवीसलिलावर्तशोभिनाभिविभूषिता
माणिक्यशकलाबद्धमुद्रिकाङ्गुलिभूषिता । पुण्डरीकदलाकारनयनत्रयसुन्दरी
कल्पिताच्छमहारागपद्मरागोज्ज्वलप्रभा । रत्नकिङ्किणिकायुक्तरत्नकङ्कणशोभिता
मणिमुक्तासरापारलसत्पदकसन्ततिः । रत्नाङ्गुलिप्रविततप्रभाजाललसत्करा
कञ्चुकीगुम्फितापारनानारत्नततिद्युतिः । मल्लिकामोदिधम्मिल्लमल्लिकालिसरावृता
सुवृत्तनिबिडोत्तुङ्गकुचभारालसा शिवा । वरपाशाङ्कुशाभीतिलसद्बाहुचतुष्टया
सर्वशृङ्गारवेषाढ्या सुकुमाराङ्गवल्लरी । सौन्दर्यधारासर्वस्वा निर्व्याजकरुणामयी
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी । कोटिकोटिरवीन्दूनां कान्तिं या बिभ्रती परा
नानासखीभिर्दासीभिस्तथा देवाङ्गनादिभिः । सर्वाभिर्देवताभिस्तु समन्तात्परिवेष्टिता
इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता । लज्जा तुष्टिस्तथा पुष्टिः कीर्तिः कान्तिः क्षमा दया
बुद्धिर्मेधा स्मृतिर्लक्ष्मीर्मूर्तिमत्योऽङ्गनाः स्मृताः । जया च विजया चैवाप्यजिता चापराजिता
नित्या विलासिनी दोग्ध्री त्वघोरा मङ्गला नव । पीठशक्तय एतास्तु सेवन्ते यां पराम्बिकाम्
यस्यास्तु पार्श्वभागे स्तो निधी तौ शङ्खपद्मकौ । नवरत्नवहा नद्यस्तथा वै काञ्चनस्रवाः
सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वन्तगामिन्यस्ताः सर्वा नृपसत्तम
सा देवी भुवनेशानी तद्वामाङ्के विराजते । सर्वेशत्वं महेशस्य यत्सङ्गादेव नान्यथा
चिन्तामणिगृहस्यास्य प्रमाणं शृणु भूमिप । सहस्रयोजनायामं महान्तस्तत्प्रचक्षते
तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते
सङ्कोचश्च विकासश्च जायतेऽस्य निरन्तरम् । पटवत्कार्यवशतः प्रलये सर्जने तथा
शालानां चैव सर्वेषां सर्वकान्तिपरावधि । चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी
ये ये उपासकाः सन्ति प्रतिब्रह्माण्डवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च
श्रीदेव्यास्ते च सर्वेऽपि व्रजन्त्यत्रैव भूमिप । देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः
ते सर्वे यान्ति तत्रैव यत्र देवी महोत्सवा । घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः
स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः
आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफला वृक्षा वाप्यः कूपास्तथैव च
यथेष्टपानफलदा न न्यूनं किञ्चिदस्ति हि । न रोगपलितं वापि जरा वापि कदाचन
न चिन्ता न च मात्सर्यं कामक्रोधादिकं तथा । सर्वे युवानः सस्त्रीका सहस्रादित्यवर्चसः