मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः
पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढ्या नवयौवनगर्विताः
प्रवालसालादग्रे तु नवरत्नविनिर्मितः । बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप
तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप
निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः
सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि । नवरत्नमयादग्रे चिन्तामणिगृहं महत्
तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा
विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते
मणिद्वीपवर्णनम् व्यास उवाच तदेव देवीसदनं मध्यभागे विराजते । सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः
शृङ्गारमण्डपश्चैको मुक्तिमण्डप एव च । ज्ञानमण्डपसंज्ञस्तु तृतीयः परिकीर्तितः
एकान्तमण्डपश्चैव चतुर्थः परिकीर्तितः । नानावितानसंयुक्ता नानाधूपैस्तु धूपिताः
कोटिसूर्यसमाः कान्त्या भ्राजन्ते मण्डपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता
मल्लिकाकुन्दवनिका यत्र पुष्कलकाः स्थिताः । असंख्याता मृगमदैः पूरितास्तत्स्रवा नृप
महापद्माटवी तद्वद्रत्नसोपाननिर्मिता । सुधारसेन सम्पूर्णा गुञ्जन्मत्तमधुव्रता
हंसकारण्डवाकीर्णा गन्धपूरितदिक्तटा । वनिकानां सुगन्धैस्तु मणिद्वीपं सुवासितम्
शृङ्गारमण्डपे देव्यो गायन्ति विविधैः स्वरैः । सभासदो देववरा मध्ये श्रीजगदम्बिका
मुक्तिमण्डपमध्ये तु मोचयत्यनिशं शिवा । ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे
चतुर्थमण्डपे चैव जगद्रक्षाविचिन्तनम् । मन्त्रिणीसहिता नित्यं करोति जगदम्बिका
चिन्तामणिगृहे राजञ्छक्तितत्त्वात्मकैः परैः । सोपानैर्दशभिर्युक्तो मञ्चकोऽप्यधिराजते
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते मञ्चखुराः प्रोक्ताः फलकस्तु सदाशिवः
तस्योपरि महादेवो भुवनेशो विराजते । या देवी निजलीलार्थं द्विधाभूता बभूव ह
सृष्ट्यादौ तु स एवायं तदर्धाङ्गो महेश्वरः । कन्दर्पदर्पनाशोद्यत्कोटिकन्दर्पसुन्दरः
पञ्चवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः । हरिणाभीतिपरशून् वरं च निजबाहुभिः
दधानः षोडशाब्दोऽसौ देवः सर्वेश्वरो महान् । कोटिसूर्यप्रतीकाशश्चन्द्रकोटिसुशीतलः
शुद्धस्फटिकसंकाशस्त्रिनेत्रः शीतलद्युतिः । वामाङ्गे सन्निषण्णास्य देवी श्रीभुवनेश्वरी
नवरत्नगणाकीर्णकाञ्चीदामविराजिता । तप्तकाञ्चनसन्नद्धवैदूर्याङ्गदभूषणा
कनच्छ्रीचक्रताटङ्कविटङ्कवदनाम्बुजा । ललाटकान्तिविभवविजितार्थसुधाकरा
बिम्बकान्तितिरस्कारिरदच्छदविराजिता । लसत्कुङ्कुमकस्तुरीतिलकोद्भासितानना