शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः
विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतोऽपरः
सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् । नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु
पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः । कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः
तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च
स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः
सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप
गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः
ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि । अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम्
दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः
पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते । शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते
विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः
प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम्
महामारकतस्याग्रे शतयोजनदैर्घ्यवान् । प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः
मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पञ्चभूतानां स्वामिन्यः पञ्च सन्ति च
हृल्लेखा गगना रक्ता चतुर्थी तु करालिका । महोच्छुष्मा पञ्चमी च पञ्चभूतसमप्रभाः
पाशाङ्कुशवराभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढ्या नवयौवनगर्विताः
प्रवालसालादग्रे तु नवरत्नविनिर्मितः । बहुयोजनविस्तीर्णो महासालोऽस्ति भूमिप
तत्र चाम्नायदेवीनां सदनानि बहून्यपि । नवरत्नमयान्येव तडागाश्च सरांसि च
श्रीदेव्या येऽवताराः स्युस्ते तत्र निवसन्ति हि । महाविद्या महाभेदाः सन्ति तत्रैव भूमिप
निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः
सप्तकोटिमहामन्त्रदेवताः सन्ति तत्र हि । नवरत्नमयादग्रे चिन्तामणिगृहं महत्
तत्रत्यं वस्तुमात्रं तु चिन्तामणिविनिर्मितम् । सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्गारोपलैस्तथा
विद्युत्प्रभोपलैः स्तम्भाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरन्तःस्थं वस्तु किञ्चिन्न दृश्यते