सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः
ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्विताः
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः
मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम्
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा
सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः
नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम । अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा
अनङ्गमदना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम्
शशिरेखा च गगनरेखा चैव ततः परम् । पाशाङ्कुशवराभीतिधरा अरुणविग्रहाः
विश्वसम्बन्धिनीं वार्तां बोधयन्ति प्रतिक्षणम् । मुक्तासालादग्रभागे महामारकतोऽपरः
सालोत्तमः समुद्दिष्टो दशयोजनदैर्घ्यवान् । नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः
मध्यभूस्तादृशी प्रोक्ता सदनानि तथैव च । षट्कोणमत्र विस्तीर्णं कोणस्था देवताः शृणु
पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विधिः । कुण्डिकाक्षगुणाभीतिदण्डायुधधरः परः
तदायुधधरा देवी गायत्री परदेवता । वेदाः सर्वे मूर्तिमन्तः शास्त्राणि विविधानि च
स्मृतयश्च पुराणानि मूर्तिमन्ति वसन्ति हि । ये ब्रह्मविग्रहाः सन्ति गायत्रीविग्रहाश्च ये
व्याहृतीनां विग्रहाश्च ते नित्यं तत्र सन्ति हि । रक्षःकोणे शङ्खचक्रगदाम्बुजकराम्बुजा
सावित्री वर्तते तत्र महाविष्णुश्च तादृशः । ये विष्णुविग्रहाः सन्ति मत्स्यकूर्मादयोऽखिलाः
सावित्रीविग्रहा ये च ते सर्वे तत्र सन्ति हि । वायुकोणे परश्वक्षमालाभयवरान्वितः
महारुद्रो वर्ततेऽत्र सरस्वत्यपि तादृशी । ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप
गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि । चतुःषष्ट्यागमा ये च ये चान्येऽप्यागमाः स्मृताः
ते सर्वे मूर्तिमन्तश्च तत्रैव निवसन्ति हि । अग्निकोणे रत्नकुम्भं तथा मणिकरण्डकम्
दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः
देव्या निधिपतिस्त्वास्ते स्वगुणैः परिवेष्टितः । वारुणे तु महाकोणे मदनो रतिसंयुतः
पाशाङ्कुशधनुर्बाणधरो नित्यं विराजते । शृङ्गारा मूर्तिमन्तस्तु तत्र सन्निहिताः सदा
ईशानकोणे विघ्नेशो नित्यं पुष्टिसमन्वितः । पाशाङ्कुशधरो वीरो विघ्नहर्ता विराजते
विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसन्त्यत्र महैश्वर्यसमन्विताः
प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः । एते ब्रह्मादयः प्रोक्ताः सेवन्ते जगदीश्वरीम्
महामारकतस्याग्रे शतयोजनदैर्घ्यवान् । प्रवालसालोऽस्त्यपरः कुङ्कुमारुणविग्रहः