कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा । प्राजापत्येनोत्तमेन तेजसा वसुधाधिप
पावकेन च सञ्जातं लोचनत्रितयं शुभम् । सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी
कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप । सर्वेषां तेजसा देवी जाता महिषमर्दिनी
शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् । हुताशनो ददौ शक्तिं मारुतश्चापसायकौ
वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् । कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू
दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ । कालः खड्गं तथा चर्म निर्मलं वसुधाधिप
समुद्रो निर्मलं हारमजरे चाम्बरे नृप । चूडामणिं कुण्डले च कटकानि तथाङ्गदे
अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ । ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः
विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते । हिमवान्वाहनं सिंहं रत्नानि विविधानि च
पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः । शेषश्च भगवान्देवो नागहारं ददौ विभुः
अन्यैरशेषविबुधैर्मानिता सा जगन्मयी । तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः
नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता
महिषस्य वधार्थाय महानादं चकार ह । तेन नादेन महिषश्चकितोऽभूद्धरापते
आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः
शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् । चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ
बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः
योधैः परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी
जघान योधान्समरे देवी महिषमाश्रितान् । ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः
आससाद तदा देवीं तूर्णं मायाविशारदः । रूपान्तराणि सम्भेजे मायया दानवेश्वरः
तानि तान्यस्य रूपाणि नाशयामास सा तदा । ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम्
पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः । पातयामास महिषं देवी देवगणान्तकम्
हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश । तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः
एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी । राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत्
एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः । निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः
तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप । हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात्
देवा ऊचुः जय देवेशि भक्तानामार्तिनाशनकोविदे । दानवान्तकरूपे त्वमजरामरणेऽनघे
देवेशि भक्तिसुलभे महाबलपराक्रमे । विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे
सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि । महाताण्डवसुप्रीते मोददायिनि माधवि
प्रसीद देवदेवेशि प्रसीद करुणानिधे । निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे
उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् । एवं संस्तुवतां तेषां त्रिदशानां धरापते