धावमानास्तु शोभन्ते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समन्ततः
अष्टदिक्षु तथैतासां प्राकाराद्बहिरेव च । सदनानि विराजन्ते नानावाहनहेतिभिः
वज्रसालादग्रभागे सालो वैदूर्यनिर्मितः । दशयोजनतुङ्गोऽसौ गोपुरद्वारभूषितः
वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सर्वे वैदूर्यनिर्मिताः
वापीकूपतडागाश्च स्रवन्तीनां तटानि च । बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता
तत्राष्टदिक्षु परितो ब्राह्म्यादीनां च मण्डलम् । निजैर्गणैः परिवृतं भ्राजते नृपसत्तम
प्रतिब्रह्माण्डमातॄणां ताः समष्टय ईरिताः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः । अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः
ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः
तत्सालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते सन्ति सालङ्काराणि नित्यशः
दन्तिनः कोटिशो वाहाः कोटिशः शिबिकास्तथा । हंसाः सिंहाश्च गरुडा मयूरा वृषभास्तथा
तैर्युक्ताः स्यन्दनास्तद्वत्कोटिशो नृपनन्दन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुम्बिनः
कोटिशस्तु विमानानि नानाचिह्नान्वितानि च । नानावादित्रयुक्तानि महाध्वजयुतानि च
वैदूर्यमणिसालस्याप्यग्रे सालः परः स्मृतः । दशयोजनतुङ्गोऽसाविन्द्रनीलाश्मनिर्मितः
तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च । वापीकूपतडागाश्च सर्वे तन्मणिनिर्मिताः
तत्र पद्मं तु सम्प्रोक्तं बहुयोजनविस्तृतम् । षोडशारं दीप्यमानं सुदर्शनमिवापरम्
तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपस्करयुक्तानि समृद्धानि वसन्ति हि
तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम । कराली विकराली च तथोमा च सरस्वती
श्रीदुर्गोषा तथा लक्ष्मीः श्रुतिश्चैव स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कान्तिरार्या षोडश शक्तयः
नीलजीमूतसंकाशाः करवालकराम्बुजाः । समाः खेटकधारिण्यो युद्धोपक्रान्तमानसाः
सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः । प्रतिब्रह्माण्डसंस्थानां शक्तीनां नायिकाः स्मृताः
ब्रह्माण्डक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्विताः
एतत्पराक्रमं वक्तुं सहस्रास्योऽपि न क्षमः । इन्द्रनीलमहासालादग्रे तु बहुविस्तृतः
मुक्ताप्राकार उदितो दशयोजनदैर्घ्यवान् । मध्यभूः पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलाम्बुजम्
मुक्तामणिगणाकीर्णं विस्तृतं तु सकेसरम् । तत्र देवीसमाकारा देव्यायुधधराः सदा
सम्प्रोक्ता अष्टमन्त्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इङ्गितज्ञास्तु पण्डिताः
कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबोध्यस्ताश्चतुरा अतिसुन्दराः
नानाशक्तिसमायुक्ताः प्रतिब्रह्माण्डवर्तिनाम् । प्राणिनां ताः समाचारं ज्ञानशक्त्या विदन्ति च
तासां नामानि वक्ष्यामि मत्तः शृणु नृपोत्तम । अनङ्गकुसुमा प्रोक्ताप्यनङ्गकुसुमातुरा
अनङ्गमदना तद्वदनङ्गमदनातुरा । भुवनपाला गगनवेगा चैव ततः परम्