रथानां गणना नास्ति हयानां करिणां तथा । शस्त्राणां गणना तद्वद्गणानां गणना तथा
पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान्
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासिसदनानि च
पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः
प्रत्येकलोकवासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धाः पिशाचवदना नृप
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च
वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता
सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप
रथानां नैव गणना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते
तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्याह्रीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा
रुद्रा वीर्या प्रभा नन्दा पोषिणी ऋद्धिदा शुभा । कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी
विकृतिर्दण्डिमुण्डिन्यौ सेन्दुखण्डा शिखण्डिनी । निशुम्भशुम्भमथिनी महिषासुरमर्दिनी
इन्द्राणी चैव रुद्राणी शङ्करार्धशरीरिणी । नारी नारायणी चैव त्रिशूलिन्यपि पालिनी
अम्बिका ह्लादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम्
पराजयो न चैतासां कदाचित्क्वचिदस्ति हि । गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः
दशयोजनतुङ्गोऽसौ गोपुरद्वारसंयुतः । कपाटशृङ्खलाबद्धो नववृक्षसमुज्ज्वलः
सालस्तन्मध्यभूम्यादि सर्वं हीरमयं स्मृतम् । गृहाणि वीथयो रथ्या महामार्गाङ्गणानि च
वृक्षालवालतरवः सारङ्गा अपि तादृशाः । दीर्घिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः
तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकैका लक्षदासीभिः सेविता मदगर्विताः
तालवृन्तधराः काश्चिच्चषकाढ्यकराम्बुजाः । काश्चित्ताम्बूलपात्राणि धारयन्त्योऽतिगर्विताः
काश्चित्तच्छत्रधारिण्यश्चामराणां विधारिकाः । नानावस्त्रधराः काश्चित्काश्चित्पुष्पकराम्बुजाः
नानादर्शकराः काश्चित्काश्चित्कुङ्कुमलेपनम् । धारयन्त्यः कज्जलं च सिन्दूरचषकं पराः
काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः । काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः
पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः । नानाविलासचतुरा बह्व्य एवंविधाः पराः
निबद्धपरिधानीया युवत्यः सकला अपि । देवीकृपालेशवशात्तुच्छीकृतजगत्त्रयाः
एता दूत्यः स्मृता देव्यः शृङ्गारमदगर्विताः । तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम
अनङ्गरूपा प्रथमाप्यनङ्गमदना परा । तृतीया तु ततः प्रोक्ता सुन्दरी मदनातुरा
ततो भुवनवेगा स्यात्तथा भुवनपालिका । स्यात्सर्वशिशिरानङ्गवदनानङ्गमेखला
विद्युद्दामसमानाङ्ग्यः क्वणत्काञ्चीगुणान्विताः । रणन्मञ्जीरचरणा बहिरन्तरितस्ततः