thumb|६४ कला-१ thumb|६४ कला - २ thumb|६४ कला- ३ thumb|६४ कला- ४ पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् व्यास उवाच पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैव तादृशी
दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप
मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरा वीरा रत्नभूषणभूषिताः
प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः । समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया
विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा । गगनवेगा पवनवेगा वेगा चैव ततः परम्
अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा । अनङ्गानङ्गमथना तथैवानङ्गमेखला
अनङ्गकुसुमा पश्चाद्विश्वरूपा सुरादिका । क्षयङ्करी भवेच्छक्तिरक्षोभ्या च ततः परम्
सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचितव्रता । उदाराख्या च वागीशी चतुःषष्टिमिताः स्मृताः
ज्वलज्जिह्नाननाः सर्वा वमन्त्यो वह्निमुल्बणम् । जलं पिबामः सकलं संहरामो विभावसुम्
पवनं स्तम्भयामोऽद्य भक्षयामोऽखिलं जगत् । इति वाचं संगिरन्ते क्रोधसंरक्तलोचनाः
चापबाणधराः सर्वा युद्धायैवोत्सुकाः सदा । दंष्ट्राकटकटारावैर्बधिरीकृतदिङ्मुखाः
पिङ्गोर्ध्वकेश्यः सम्प्रोक्ताश्चापबाणकराः सदा । शताक्षौहिणिका सेनाप्येकैकस्याः प्रकीर्तिता
एकैकशक्तेः सामर्थ्यं लक्षब्रह्माण्डनाशने । शताक्षौहिणिका सेना तादृशी नृपसत्तम
किं न कुर्याज्जगत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्साले स्थिता मुने
रथानां गणना नास्ति हयानां करिणां तथा । शस्त्राणां गणना तद्वद्गणानां गणना तथा
पद्मरागमयादग्रे गोमेदमणिनिर्मितः । दशयोजनदैर्घ्येण प्राकारो वर्तते महान्
भास्वज्जपाप्रसूनाभो मध्यभूस्तस्य तादृशी । गोमेदकल्पितान्येव तद्वासिसदनानि च
पक्षिणः स्तम्भवर्याश्च वृक्षा वाप्यः सरांसि च । गोमेदकल्पिता एव कुङ्कुमारुणविग्रहाः
तन्मध्यस्था महादेव्यो द्वात्रिंशच्छक्तयः स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः
प्रत्येकलोकवासिन्यः परिवार्य समन्ततः । गोमेदसाले सन्नद्धाः पिशाचवदना नृप
स्वर्लोकवासिभिर्नित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिन्धि पचच्छिन्धि दहेति च
वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एकैकस्या महाशक्तेर्दशाक्षौहिणिका मता
सेना तत्राप्येकशक्तिर्लक्षब्रह्माण्डनाशिनी । तादृशीनां महासेना वर्णनीया कथं नृप
रथानां नैव गणना वाहनानां तथैव च । सर्वयुद्धसमारम्भस्तत्र देव्या विराजते