स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते । निजवाहनभूषाढ्यो निजदेवगणैर्वृतः
याम्याशायां यमपुरी तत्र दण्डधरो महान् । स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः
निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् । नैर्ऋत्यां दिशि राक्षस्यां राक्षसैः परिवारितः
खड्गधारी स्फुरन्नास्ते निर्ऋतिर्निजशक्तियुक् । वारुण्यां वरुणो राजा पाशधारी प्रतापवान्
महाझषसमारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः
समास्ते वारुणे लोके वरुणानीरताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति
वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः
मरुद्गणैः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान् यक्षलोकोऽस्ति भूमिप
यक्षाधिराजस्तत्रास्ते वृद्धिऋद्ध्यादिशक्तिभिः । नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः
मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः
इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः
अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः
स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिराधृतः । स्वसमानैरसंख्यातरुद्रैः शूलवरायुधैः
विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरैः सहस्रभुजसंयुतैः
दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः । अन्तरिक्षचरा ये च ये च भूमिचरा स्मृताः
रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः
नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन् विराजते
मुण्डमालाधरो नागवलयो नागकन्धरः । व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः
चिताभस्माङ्ग लिप्ताङ्गः प्रमथादिगणावृतः । निनदड्डमरुध्वानैर्बधिरीकृतदिङ्मुखः
अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः । भूतसङ्घसमाविष्टो भूतावासो महेश्वरः । ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च
thumb|६४ कला-१ thumb|६४ कला - २ thumb|६४ कला- ३ thumb|६४ कला- ४ पद्मरागादिमणिविनिर्मितप्राकारवर्णनम् व्यास उवाच पुष्परागमयादग्रे कुङ्कुमारुणविग्रहः । पद्मरागमयः सालो मध्ये भूश्चैव तादृशी
दशयोजनवान्दैर्घ्ये गोपुरद्वारसंयुतः । तन्मणिस्तम्भसंयुक्ता मण्डपाः शतशो नृप
मध्ये भुवि समासीनाश्चतुःषष्टिमिताः कलाः । नानायुधधरा वीरा रत्नभूषणभूषिताः
प्रत्येकलोकस्तासां तु तत्तल्लोकस्य नायकाः । समन्तात्पद्मरागस्य परिवार्य स्थिताः सदा
स्वस्वलोकजनैर्जुष्टाः स्वस्ववाहनहेतिभिः । तासां नामानि वक्ष्यामि शृणु त्वं जनमेजय
पिङ्गलाक्षी विशालाक्षी समृद्धिर्वृद्धिरेव च । श्रद्धा स्वाहा स्वधाभिख्या माया संज्ञा वसुन्धरा
त्रिलोकधात्री सावित्री गायत्री त्रिदशेश्वरी । सुरूपा बहुरूपा च स्कन्दमाताच्युतप्रिया
विमला चामला तद्वदरुणी पुनरारुणी । प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा । देवमाता भगवती देवकी कमलासना
त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी । लम्बोष्ठी चोर्ध्वकेशी च बहुशीर्षा वृकोदरी