वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः । सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः
नभःश्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी । अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका
वर्षयन्ती चिपुणिका वारिधारा च सम्मताः । वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः
नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराखिला
नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः । सरांसि कलुषाम्बूनि रागिचित्तसमानि च
वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः । वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः
ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः । आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान्
पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका । नानापुष्पलताकीर्णा नानापल्लवशोभिता
अधिष्ठातात्र सम्प्रोक्तः शरद्ऋतुरनामयः । इषुलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते
नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः । पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान्
दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः । पारिजाताटवीमध्ये प्रसूनस्तबकान्विता
दशयोजनगन्धीनि कुसुमानि समन्ततः । मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः
तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः । सगणः सायुधः सर्वान् रागिणो रञ्जयन्नृप
सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते । वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः
रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् । सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः
मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता । कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः
याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते । तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः
तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते । मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः
नानाविलाससंयुक्तो नानागणसमावृतः । निवसन्ति महासिद्धा ये देवीदानकारिणः
नानाभोगसमुत्पन्नमहानन्दसमन्विताः । साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः
स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् । पुष्परागमयः सालः कुङ्कुमारुणविग्रहः
पुष्परागमयी भूमिर्वनान्युपवनानि च । रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः
प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः । वनभूः पक्षिणश्चैव रत्नवर्णजलानि च
मण्डपा मण्डपस्तम्भाः सरांसि कमलानि च । प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत्
परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो । तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप
दिक्पाला निवसन्त्यत्र प्रतिब्रह्माण्डवर्तिनाम् । दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः
पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती । नानोपवनसंयुक्तो महेन्द्रस्तत्र राजते
स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका । समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता
ऐरावतसमारूढो वज्रहस्तः प्रतापवान् । देवसेनापरिवृतो राजतेऽत्र शतक्रतुः
देवाङ्गनागणयुता शची तत्र विराजते । वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप