पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः । देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः
लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा । पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः
तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः । पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः । गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः
चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः । कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः । क्षीरवृक्षाश्च खदिराश्चिञ्जाभल्लातकास्तथा
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च । तुलसीनां वनान्येवं मल्लिकानां तथैव च
इत्यादितरुजातीनां वनान्युपवनानि च । नानावापीशतैर्युक्तान्येवं सन्ति धराधिप
कोकिलारावसंयुक्ता गुञ्जद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः
पारावतशुकव्रातसारिकापक्षमारुतैः । हंसपक्षसमुद्भूतावातव्रातैश्चलद्द्रुमम्
सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूथैर्धावमानैरितस्ततः
नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः । नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः
कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सप्तयोजनः
द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका । येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप
पत्राणि काञ्चनाभानि रत्नबीजफलानि च । दशयोजनगन्धो हि प्रसर्पति समन्ततः
तद्वनं रक्षितं राजन् वसन्तेनर्तुनानिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः
पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः । मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते
क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः । अतीव रम्यं विपिनं मधुस्रावि समन्ततः
दशयोजनपर्यन्तं कुसुमामोदवायुना । पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः
शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् । वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम्
ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया
सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप । दशयोजनगन्धस्तु प्रसूनानां समन्ततः
हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् । अमृतद्रवसंयुक्तफलानि मधुराणि च
ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते
सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्धैः परिवृतो नानादेवैः समन्वितः
विलासिनीनां वृन्दैस्तु चन्दनद्रवपङ्किलैः । पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः
प्राकारः शोभितो राजञ्छीतलाम्बुनिषेविभिः । सीससालादुत्तरत्राप्यारकूटमयः शुभः
प्राकारो वर्तते राजन् मुनियोजनदैर्घ्यवान् । हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता
सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः । विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः