व्यास उवाच इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः । प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह
एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति । कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः
भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये । सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः
वेदभक्तिविहीनाश्च पाखण्डमतगामिनः । अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः
मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् । तप्तमुद्राङ्किताः केचित्कामाचाररताः परे
कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे । पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः
लम्पटाः परदारेषु दुराचारपरायणाः । कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः
तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी । न विष्णूपासना नित्या न शिवोपासना तथा
नित्या चोपासना शक्तेर्यां विना तु पतत्यधः । सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ
अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् । यत्परं स्थानमाद्याया भुवनेश्या भवारणेः
; मणिद्वीपवर्णनम् व्यास उवाच ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मनसेच्छया
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया । कैलासादधिको लोको वैकुण्ठादपि चोत्तमः
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । न तत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित्
छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् । छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम
बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि । मणिद्वीपस्य परितो वर्तते तु सुधोदधिः
मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः । रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः
वीचिसङ्घर्षसञ्जातलहरीकणशीतलः । नानाध्वजसमायुक्तनानापोतगतागतैः
विराजमानः परितस्तीररत्नद्रुमो महान् । तदुत्तरमयोधातुनिर्मितो गगने ततः
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः
रक्षका निवसन्त्यत्र मोदमानाः समन्ततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः
नानागणैः परिवृतो देवीभक्तियुतैर्नृप । दर्शनार्थं समायान्ति ये देवा जगदीशितुः
तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि । विमानशतसङ्घर्षघण्टास्वनसमाकुलः
हयहेषाखराघातबधिरीकृतदिङ्मुखः । गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः
सेवका देवसङ्घानां भ्राजन्ते तत्र भूमिप । तस्मिन्कोलाहले राजन्न शब्दः केनचित्क्वचित्
कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले । पदे पदे मिष्टवारिपरिपूर्णसरांसि च
वाटिका विविधा राजन् रत्नद्रुमविराजिताः । तदुत्तरं महासारधातुनिर्मितमण्डलः
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वसालादयं परः
गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च
निरन्तरं पुष्पयुताः सदा फलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः