श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः । शङ्खचक्राद्यङ्किताश्च भवत ब्राह्मणाधमाः
कापालिकमतासक्ता बौद्धशास्त्ररताः सदा । पाखण्डाचारनिरता भवत ब्राह्मणाधमाः
पितृमातृसुताभ्रातृकन्याविक्रयिणस्तथा । भार्याविकयिणस्तद्वद्भवत ब्राह्मणाधमाः
वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा । धर्मविक्रयिणस्तद्वद्भवत ब्राह्मणाधमाः
पाञ्चरात्रे कामशास्त्रे तथा कापालिके मते । बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः
मातृकन्यागामिनश्च भगिनीगामिनस्तथा । परस्त्रीलम्पटाः सर्वे भवत ब्राह्मणाधमाः
युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा । मद्दत्तशापदग्धास्ते भविष्यन्ति भवत्समाः
किं मया बहुनोक्तेन मूलप्रकृतिरीश्वरी । गायत्री परमा भूयाद्युष्मासु खलु कोपिता
अन्धकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः । व्यास उवाच वाग्दण्डमीदृशं कृत्वाप्युपस्पृश्य जलं ततः
जगाम दर्शनार्थं च गायत्र्याः परमोस्तुकः । प्रणनाम महादेवीं सापि देवी परात्परा
ब्राह्मणानां कृतिं दृष्ट्वा स्मयं चित्ते चकार ह । अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते
उवाच मुनिवर्यं तं स्मयमानमुखाम्बुजा । भुजङ्गायार्पितं दुग्धं विषायैवोपजायते
शान्तिं कुरु महाभाग कर्मणो गतिरीदृशी । इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति
ततो विप्रैः शापदग्धैर्विस्मृता वेदराशयः । गायत्री विस्मृता सर्वैस्तदद्भुतमिवाभवत्
ते सर्वेऽथ मिलित्वा तु पश्चात्तापयुतास्तथा । प्रणेमुर्मुनिवर्यं तं दण्डवत्पतिता भुवि
नोचुः किञ्चन वाक्यं तु लज्जयाधोमुखाः स्थिताः । प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः
प्रार्थयामासुरभितः परिवार्य मुनीश्वरम् । करुणापूर्णहृदयो मुनिस्तान्समुवाच ह
कृष्णावतारपर्यन्तं कुम्भीपाके भवेत्स्थितिः । न मे वाक्यं मृषा भूयादिति जानीथ सर्वथा
ततः परं कलियुगे भुवि जन्म भवेद्धि वाम् । मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा
मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदीषणा । तर्हि सेव्यं सदा सर्वैर्गायत्रीपदपङ्कजम्
व्यास उवाच इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः । प्रारब्धामिति मत्वा तु चित्ते शान्तिं जगाम ह
एतस्मात्कारणाद्राजन् गते कृष्णे तु धीमति । कलौ युगे प्रवृत्ते तु कुम्भीपाकात्तु निर्गताः
भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये । सन्ध्यात्रयविहीनाश्च गायत्रीभक्तिवर्जिताः
वेदभक्तिविहीनाश्च पाखण्डमतगामिनः । अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः
मूलप्रकृतिमव्यक्तां नैव जानन्ति कर्हिचित् । तप्तमुद्राङ्किताः केचित्कामाचाररताः परे
कापालिकाः कौलिकाश्च बौद्धा जैनास्तथापरे । पण्डिता अपि ते सर्वे दुराचारप्रवर्तकाः
लम्पटाः परदारेषु दुराचारपरायणाः । कुम्भीपाकं पुनः सर्वे यास्यन्ति निजकर्मभिः
तस्मात्सर्वात्मना राजन् संसेव्या परमेश्वरी । न विष्णूपासना नित्या न शिवोपासना तथा
नित्या चोपासना शक्तेर्यां विना तु पतत्यधः । सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयानघ
अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम् । यत्परं स्थानमाद्याया भुवनेश्या भवारणेः