रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् । निषसाद सभामध्ये मुनीनां भावितात्मनाम्
गौतमादिभिरत्युच्चैः पूजितः शान्तमानसः । कथाश्चकार विविधा यशसो गौतमस्य च
ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः । जगौ बहुविधं स्वच्छं मुनिपोषणजं परम्
श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टुमहमागतः । धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः
इत्युक्त्वा मुनिवर्यं तं गायत्रीसदनं ययौ । ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः
तुष्टाव विधिवद्देवीं जगाम त्रिदिवं पुनः । अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः
उत्कर्षं तु मुनेः श्रुत्वासूयया खेदमागताः । यथास्य न यशो भूयात्कर्तव्यं सर्वथैव हि
काले समागते पश्चादिति सर्वैस्तु निश्चितम् । ततः कालेन कियताप्यभूद्वृष्टिर्धरातले
सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम । श्रुत्वा वार्तां सुभिक्षस्य मिलिताः सर्ववाडवाः
गौतमं शप्तुमुद्योगं हा हा राजन् प्रचक्रिरे । धन्यौ तेषां च पितरौ ययोरुत्पत्तिरीदृशी
कालस्य महिमा राजन् वक्तुं केन हि शक्यते । गौर्निर्मिता माययैका मुमूर्षुर्जरती नृप
जगाम सा च शालायां होमकाले मुनेस्तदा । हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे
गौर्हतानेन दुष्टेनेत्येवं ते चुक्रुशुर्द्विजाः । होमं समाप्य मुनिराङ् विस्मयं परमं गतः
समाधिमीलिताक्षः संश्चिन्तयामास कारणम् । कृतं सर्वं द्विजैरेतदिति ज्ञात्वा तदैव सः
दधार कोपं परमं प्रलये रुद्रकोपवत् । शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः
वेदमातरि गायत्र्यां तद्ध्याने तन्मनोर्जपे । भवतानुन्मुखा यूयं सर्वथा ब्राह्मणाधमाः
वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
शिवे शिवस्य मन्त्रे च शिवशास्त्रे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
मूलप्रकृत्याः श्रीदेव्यास्तद्ध्याने तत्कथासु च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
देवीमन्त्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
रुद्राक्षं बिल्वपत्रे च तथा शुद्धे च भस्मनि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
श्रौतस्मार्तसदाचारे ज्ञानमार्गे तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
अद्वैतज्ञाननिष्ठायां शान्तिदान्त्यादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
गोदानादिषु दानेषु पितृश्राद्धेषु चैव हि । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः
कृच्छ्रचान्द्रायणे चैव प्रायश्चित्ते तथैव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः