ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः । दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः
युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा । का चिन्ता भवतां विप्रा मयि दासे विराजति
धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः । येषां दर्शनमात्रेण दुष्कृतं सुकृतायते
ते सर्वे पादरजसा पावयन्ति गृहं मम । को मदन्यो भवेद्धन्यो भवतां समनुग्रहात्
स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः । व्यास उवाच इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः
गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः । नमो देवि महाविद्ये वेदमातः परात्परे
व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि । साम्यावस्थात्मिके मातर्नमो ह्रींकाररूपिणि
स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् । भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम्
तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् । सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम्
प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् । सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम्
सर्वभूतारणे देवि क्षमस्व परमेश्वरि । इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ
पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम् । उवाच मुनिमम्बा सा यं यं कामं त्वमिच्छसि
तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति । इत्युक्त्वान्तर्दधे देवी गायत्री परमा कला
अन्नानां राशयस्तस्मानिर्गताः पर्वतोपमाः । षड्रसा विविधा राजंस्तृणानि विविधानि च
भूषणानि च दिव्यानि क्षौमानि वसनानि च । यज्ञानां च समारम्भाः पात्राणि विविधानि च
यद्यदिष्टमभूद्राजन् मुनेस्तस्य महात्मनः । तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः
अथाहूय मुनीन्सर्वान्मुनिराड् गौतमस्तदा । धनं धान्यं भूषणानि वसनानि ददौ मुदा
गोमहिष्यादिपशवो निर्गताः पूर्णपात्रतः । निर्गतान्यज्ञसम्भारान्स्रुक्स्रुवप्रभृतीन्ददौ
ते सर्वे मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः । स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम्
यत्किञ्चित् त्रिषु लोकेषु सुन्दरं वस्तु दृश्यते । तत्सर्वं तत्र निष्पन्नं गायत्रीदत्तपात्रतः
देवाङ्गनासमा दाराः शोभन्ते भूषणादिभिः । मुनयो देवसदृशा वस्त्रचन्दनभूषणैः
नित्योत्सवः प्रववृते मुनेराश्रममण्डले । न रोगादिभयं किञ्चिन्न च दैत्यभयं क्वचित्
स मुनेराश्रमो जातः समन्ताच्छतयोजनः । अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः
तांश्च सर्वान्पुपोषायं दत्त्वाभयमथात्मवान् । नानाविधैर्महायज्ञैर्विधिवत्कल्पितैः सुराः
सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः । सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः
अहो अयं नः किल कल्पपादपो मनोरथान्पूरयति प्रतिष्ठितः । नोचेदकाण्डे क्व हविर्वपा वा सुदुर्लभा यत्र तु जीवनाशा
इत्थं द्वादशवर्षाणि पुपोष मुनिपुङ्गवान् । पुत्रवन्मुनिराड् गर्वगन्धेन परिवर्जितः
गायत्र्याः परमं स्थानं चकार मुनिसत्तमः । यत्र सर्वैर्मुनिवरैः पूज्यते जगदम्बिका
त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः । अद्यापि यत्र देवी सा प्रातर्बाला तु दृश्यते
मध्याह्ने युवती वृद्धा सायंकाले तु दृश्यते । तत्रैकदा समायातो नारदो मुनिसत्तमः