अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् । मामेव शरणं यात सच्चिदानन्दरूपिणीम्
व्यास उवाच इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी । अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता
ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् । सम्यगाराधयामासुर्भगवत्याः परात्परम्
त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे
एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्णातमानसाः
न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च
गायत्र्युपासना नित्या सर्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात्
कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् । विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः
शिवोपास्तिरतो विप्रो नरकं याति सर्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः । देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः
ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् व्यास उवाच कदाचिदथ काले तु दशपञ्चसमा विभो । प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः
अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् । गहे गृहे शवानां तु संख्या कर्तुं न शक्यते
केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः । शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः
बालकं बालजननी स्त्रियं पुरुष एव च । भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः
ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् । तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति
सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना । गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना
सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः । एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः
सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः । पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः
पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः । दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः
आसनाद्युपचारैश्च पूजयामास वाडवान् । चकार कुशलप्रश्नं ततश्चागमकारणम्
ते सर्वे स्वस्ववृत्तान्तं कथयामासुरुत्स्मयाः । दृष्ट्वा तान्दुःखितान्विप्रानभयं दत्तवान्मुनिः
युष्माकमेतत्सदनं भवद्दासोऽस्मि सर्वथा । का चिन्ता भवतां विप्रा मयि दासे विराजति
धन्योऽहमस्मिन्समये यूयं सर्वे तपोधनाः । येषां दर्शनमात्रेण दुष्कृतं सुकृतायते
ते सर्वे पादरजसा पावयन्ति गृहं मम । को मदन्यो भवेद्धन्यो भवतां समनुग्रहात्
स्थेयं सर्वैः सुखेनैव सन्ध्याजपपरायणैः । व्यास उवाच इति सर्वान्ममाश्वास्य गौतमो मुनिराट् ततः
गायत्रीं प्रार्थयामास भक्तिसन्नतकन्धरः । नमो देवि महाविद्ये वेदमातः परात्परे
व्याहृत्यादिमहामन्त्ररूपे प्रणवरूपिणि । साम्यावस्थात्मिके मातर्नमो ह्रींकाररूपिणि
स्वाहास्वधास्वरूपे त्वां नमामि सकलार्थदाम् । भक्तकल्पलतां देवीमवस्थात्रयसाक्षिणीम्
तुर्यातीतस्वरूपां च सच्चिदानन्दरूपिणीम् । सर्ववेदान्तसंवेद्यां सूर्यमण्डलवासिनीम्
प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम् । सायाह्ने कृष्णवर्णां तां वृद्धां नित्यं नमाम्यहम्