स्थूलदेहो भवेद्ब्रह्मा लिङ्गदेहो हरिः स्मृतः । रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि
साम्यावस्था तु या प्रोक्ता सर्वान्तर्यामिरूपिणी । अत ऊर्ध्वं परं ब्रह्म मद्रूपं रूपवर्जितम्
निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते । निर्गुणं मायया हीनं सगुणं मायया युतम्
साहं सर्वं जगत्सृष्ट्वा तदन्तः सम्प्रविश्य च । प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम्
सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि । ब्रह्माणं च तथा विष्णुं रुद्रं वै कारणात्मकम्
मद्भयाद्वाति पवनो भीत्या सूर्यश्च गच्छति । इन्द्राग्निमृत्यवस्तद्वत्साहं सर्वोत्तमा स्मृता
मत्प्रसादाद्भवद्भिस्तु जयो लब्धोऽस्ति सर्वथा । युष्मानहं नर्तयामि काष्ठपुत्तलिकोपमान्
कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् । स्वतन्त्रा स्वेच्छया सर्वं कुर्वे कर्मानुरोधतः
तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः । अहङ्कारावृतात्मानो मोहमाप्ता दुरन्तकम्
अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम् । निःसृतं सहसा तेजो मदीयं यक्षमित्यपि
अतः परं सर्वभावैर्हित्वा गर्वं तु देहजम् । मामेव शरणं यात सच्चिदानन्दरूपिणीम्
व्यास उवाच इत्युक्त्या च महादेवी मूलप्रकृतिरीश्वरी । अन्तर्धानं गता सद्यो भक्त्या देवैरभिष्टुता
ततः सर्वे स्वगर्वं तु विहाय पदपङ्कजम् । सम्यगाराधयामासुर्भगवत्याः परात्परम्
त्रिसन्ध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे
एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्णातमानसाः
न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् । न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च
गायत्र्युपासना नित्या सर्ववेदैः समीरिता । यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्वथा
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि । गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात्
कुर्यादन्यन्न वा कुर्यादिति प्राह मनुः स्वयम् । विहाय तां तु गायत्रीं विष्णूपास्तिपरायणः
शिवोपास्तिरतो विप्रो नरकं याति सर्वथा । तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः । देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः
ब्राह्मणादीनां गायत्रीभिन्नान्यदेवोपासनाश्रद्धाहेतुनिरूपणम् व्यास उवाच कदाचिदथ काले तु दशपञ्चसमा विभो । प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः
अनावृष्ट्यातिदुर्भिक्षमभवत्क्षयकारकम् । गहे गृहे शवानां तु संख्या कर्तुं न शक्यते
केचिदश्वान्वराहान्वा भक्षयन्ति क्षुधार्दिताः । शवानि च मनुष्याणां भक्षयन्त्यपरे जनाः
बालकं बालजननी स्त्रियं पुरुष एव च । भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः
ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम् । तपोधनो गौतमोऽस्ति स नः खेदं हरिष्यति
सर्वैर्मिलित्वा गन्तव्यं गौतमस्याश्रमेऽधुना । गायत्रीजपसंसक्तगौतमस्याश्रमेऽधुना
सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः । एवं विमृश्य भूदेवाः साग्निहोत्राः कुटुम्बिनः
सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः । पूर्वदेशाद्ययुः केचित्केचिद्दक्षिणदेशतः
पाश्चात्या औत्तराहाश्च नानादिग्भ्यः समाययुः । दृष्ट्वा समाजं विप्राणां प्रणनाम स गौतमः
आसनाद्युपचारैश्च पूजयामास वाडवान् । चकार कुशलप्रश्नं ततश्चागमकारणम्