देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत्
प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् । अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः
अतीव लज्जितो जातो वासवो देवराडपि । यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि
अतः परं न गन्तव्यं मया तु सुरसंसदि । किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति
देहत्यागो वरस्तस्मान्मानो हि महतां धनम् । माने नष्टे जीवितं तु मृतितुल्यं न संशयः
इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः
तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले । मायाबीजं सहस्राक्ष जप तेन सुखी भव
ततो जजाप परमं मायाबीजं परात्परम् । लक्षवर्षं निराहारो ध्यानमीलितलोचनः
अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ । तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः
तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् । भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम्
बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् । चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान्
दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् । भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम्
त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् । चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम्
दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् । प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम्
रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम्
निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् । ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः
प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः । दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः
तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि
प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा
रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् । मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम्
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि
ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च ह्रींमयम् । द्वे बीजे मम मन्त्रौ स्तो मुख्यत्वेन सुरोत्तम
भागद्वयवती यस्मात्सृजामि सकलं जगत् । तत्रैकभागः सम्प्रोक्तः सच्चिदानन्दनामकः
मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः । सा च माया परा शक्तिः शक्तिमत्यहमीश्वरी
चन्द्रस्य चन्द्रिकेवेयं ममाभिन्नत्वमागता । साम्यावस्थात्मिका चैषा माया मम सुरोत्तम
प्रलये सर्वजगतो मदभिन्नैव तिष्ठति । प्राणिकर्मपरीपाकवशतः पुनरेव हि
रूपं तदेवमव्यक्तं व्यक्तीभावमुपैति च । अन्तर्मुखा तु यावस्था सा मायेत्यभिधीयते
बहिर्मुखा तु या माया तमःशब्देन सोच्यते । बहिर्मुखात्तमोरूपाज्जायते सत्त्वसम्भवः
रजोगुणस्तदैव स्यात्सर्गादौ सुरसत्तम । गुणत्रयात्मकाः प्रोक्ता ब्रह्मविष्णुमहेश्वराः
रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् । तमोगुणाधिको रुद्रः सर्वकारणरूपधृक्