त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि । नान्यः कोऽपि समर्थोऽस्ति ज्ञातुं यक्षं परं महः
सहस्राक्षवचः श्रुत्वा गुणगौरवगुम्फितम् । साभिमानो जगामाशु यत्र यक्षं विराजते
यक्षं दृष्ट्वा ततो वायुं प्रोवाच मृदुभाषया । कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः
ततो यक्षवचः श्रुत्वा गर्वेण मरुदब्रवीत् । मातरिश्वाहमस्मीति वायुरस्मीति चाब्रवीत्
वीर्यं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि । मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्भवेत्
इति श्रुत्वा वायुवाणीं निजगाद परं महः । तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम्
नोचेद्गर्वं विहायैनं लज्जितो गच्छ वासवम् । श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः
उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह । लज्जितोऽगाद्देवपार्श्वे हित्वा गर्वं स चानिलः
वृत्तान्तमवदत्सर्वं गर्वनिर्वापकारणम् । नैतञ्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः
अलौकिकं भाति यक्षं तेजः परमदारुणम् । ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे
देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तद्यक्षं समुपाद्रवत्
प्राद्रवच्च परं तेजो यक्षरूपं परात्परम् । अन्तर्धानं ततः प्राप तद्यक्षं वासवाग्रतः
अतीव लज्जितो जातो वासवो देवराडपि । यक्षसम्भाषणाभावाल्लघुत्वं प्राप चेतसि
अतः परं न गन्तव्यं मया तु सुरसंसदि । किं मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति
देहत्यागो वरस्तस्मान्मानो हि महतां धनम् । माने नष्टे जीवितं तु मृतितुल्यं न संशयः
इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः
तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले । मायाबीजं सहस्राक्ष जप तेन सुखी भव
ततो जजाप परमं मायाबीजं परात्परम् । लक्षवर्षं निराहारो ध्यानमीलितलोचनः
अकस्माच्चैत्रमासीयनवम्यां मध्यगे रवौ । तदेवाविरभूत्तेजस्तस्मिन्नेव स्थले पुनः
तेजोमण्डलमध्ये तु कुमारीं नवयौवनाम् । भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम्
बालशीतांशमुकुटां वस्त्रान्तर्व्यञ्जितस्तनीम् । चतुर्भिर्वरहस्तैस्तु वरपाशाङ्कुशाभयान्
दधानां रमणीयाङ्गीं कोमलाङ्गलतां शिवाम् । भक्तकल्पद्रुमामम्बां नानाभूषणभूषिताम्
त्रिनेत्रां मल्लिकामालाकबरीजूटशोभिताम् । चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुताम्
दन्तच्छटाभिरभितः पद्मरागीकृतक्षमाम् । प्रसन्तस्मेरवदनां कोटिकन्दर्पसुन्दराम्
रक्ताम्बरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम्
निर्व्याजकरुणामूर्तिं सर्वकारणकारणाम् । ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः
प्रेमाश्रुपूर्णनयनो रोमाञ्चिततनुस्ततः । दण्डवत्प्रणनामाथ पादयोर्जगदीशितुः
तुष्टाव विविधैः स्तोत्रैर्भक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि
प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचः श्रुत्वा प्रोवाच करुणार्णवा
रूपं मदीयं ब्रह्मैतत्सर्वकारणकारणम् । मायाधिष्ठानभूतं तु सर्वसाक्षि निरामयम्