दृश्यन्ते वैष्णवाः केचिद्गाणपत्यास्तथापरे । कापालिकाश्चीनमार्गरता वल्कलधारिणः
दिगम्बरास्तथा बौद्धाश्चार्वार्का एवमादयः । दृश्यन्ते बहवो लोके वेदश्रद्धाविवर्जिताः
किमत्र कारणं ब्रह्मंस्तद्भवान् वक्तुमर्हति । बुद्धिमन्तः पण्डिताश्च नानातर्कविचक्षणाः
अपि सन्त्येव वेदेषु श्रद्धया तु विवर्जिताः । न हि कश्चित्स्वकल्याणं बुद्ध्या हातुमिहेच्छति
किमत्र कारणं तस्माद्वद वेदविदांवर । मणिद्वीपस्य महिमा वर्णितो भवता पुरा
कीदृक् तदस्ति यद्देव्याः परं स्थानं महत्तरम् । तच्चापि वद भक्ताय श्रद्दधानाय मेऽनघ
प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत । सूत उवाच इति राज्ञो वचः श्रुत्वा भगवान् बादरायणः
निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः । यच्छ्रुत्वा तु द्विजातीनां वेदश्रद्धा विवर्धते
व्यास उवाच सम्यक्पृष्टं त्वया राजन् समये समयोचितम् । वुद्धिमानसि वेदेषु श्रद्धावांश्चैव लक्ष्यसे
पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे । शतवर्षं महाराज महाविस्मयकारकम्
नानाशस्त्रप्रहरणं नानामायाविचित्रितम् । जगत्क्षयकरं नूनं तेषां युद्धमभून्नृप
पराशक्तिकृपावेशाद्देवैर्दैत्या जिता युधि । भुवं स्वर्गं परित्यज्य गताः पातालवेश्मनि
ततः प्रहर्षिता देवाः स्वपराक्रमवर्णनम् । चक्रुः परस्परं मोहात्साभिमानाः समन्ततः
जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः । सर्वोत्तरः कुत्र दैत्याः पामरा निष्पराक्रमाः
सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः । अस्मदग्रे पामराणां दैत्यानां चैव का कथा
पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः । तेषामनुग्रहं कर्तुं तदैव जगदम्बिका
प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्
विद्युत्कोटिसमानाभं हस्तपादादिवर्जितम् । अदृष्टपूर्वं तद्दृष्ट्वा तेजः परमसुन्दरम्
सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्विति । दैत्यानां चेष्टितं किं वा माया कापि महीयसी
केनचिन्निर्मिता वाथ देवानां स्मयकारिणी । सम्भूय ते तदा सर्वे विचारं चक्रुरुत्तमम्
यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि । बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया
ततो वह्निं समाहूय प्रोवाचेन्द्रः सुराधिपः । गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम्
ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि । सहस्राक्षवचः श्रुत्वा स्वपराक्रमगर्भितम्
वेगात्स निर्गतो वह्निर्ययौ यक्षस्य सन्निधौ । तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम्
वीर्यं च त्वयि किं यत्तद्वद सर्वं ममाग्रतः । अग्निरस्मि तथा जातवेदा अस्मीति सोऽब्रवीत्
सर्वस्य दहने शक्तिर्मयि विश्वस्य तिष्ठति । तदा यक्षं परं तेजस्तदग्रे निदधौ तृणम्
दहैनं यदि ते शक्तिर्विश्वस्य दहनेऽस्ति हि । तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः
न शशाक तृणं दग्धुं लज्जितोऽगात्सुरान्प्रति । पृष्टे देवैस्तु वृत्तान्ते सर्वं प्रोवाच हव्यभुक्
वृथाभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः । ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत्
त्वयि प्रोतं जगत्सर्वं त्वच्चेष्टाभिस्तु चेष्टितम् । त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः