ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ । तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ
निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् । निद्रितो भगवानीशो दानवौ च दुरासदौ
किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् । एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः
बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी । यस्या वशं गतो देवो निद्रितो भगवान् हरिः
तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् । ब्रह्मोवाच देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे
जगन्माये महामाये समुद्रशयने शिवे । त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः
कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा । व्यापिनी वशगा मान्या महानन्दैकशेवधिः
महनीया महाराध्या माया मधुमती मही । परापराणां सर्वेषां परमा त्वं प्रकीर्तिता
लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा । कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी
परमा परमेशानी परानन्दपरायणा । एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका
त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका । पञ्चमी पञ्चभूतेशी षष्ठी षष्ठेश्वरीति च
सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा । अष्टमी वसुनाथा च नवग्रहमयीश्वरी
नवरागकला रम्या नवसंख्या नवेश्वरी । दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा
एकादशात्मिका चैकादशरुद्रनिषेविता । एकादशीतिथिप्रीता एकादशगणाधिपा
द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः । त्रयोदशात्मिका देवी त्रयोदशगणप्रिया
त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता । चतुर्दशेन्द्रवरदा चतुर्दशमनुप्रसूः
पञ्चाधिकदशी वेद्या पञ्चाधिकदशी तिथिः । षोडशी षोडशभुजा षोडशेन्दुकलामयी
षोडशात्मकचन्द्रांशुव्याप्तदिव्यकलेवरा । एवंरूपासि देवेशि निर्गुणे तामसोदये
त्वया गृहीतो भगवान्देवदेवो रमापतिः । एतौ दुरासदौ दैत्यौ विक्रान्तौ मधुकैटभौ
एतयोश्च वधार्थाय देवेशं प्रतिबोधय । मुनिरुवाच एवं स्तुता भगवती तामसी भगवत्प्रिया
देवदेवं तदा त्यक्त्वा मोहयामास दानवौ । तदैव भगवान्विष्णुः परमात्मा जगत्पतिः
प्रबोधमाप देवेशो ददृशे दानवोत्तमौ । तदा तौ दानवौ घोरौ दृष्ट्वा तं मधुसूदनम्
युद्धाय कृतसङ्कल्पौ जग्मतुः सन्निधिं हरेः । युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तौ तदातिबलोन्मत्तौ जगन्मायाविमोहितौ
व्रियतां वर इत्येवमूचतुः परमेश्वरम् । एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः
वव्रे वध्याबुभौ मेऽद्य भवेतामिति निश्चितम् । तौ तदातिबलौ देवं पुनरेवोचतुर्हरिम्
आवां जहि न यत्रोर्वी पयसा च परिप्लुता । तथेत्युक्त्वा भगवता गदाशङ्खभृता नृप
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप
महाकाली महाराज सर्वयोगेश्वरेश्वरी । महालक्ष्म्यास्तथोत्पत्तिं निशामय महीपते
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम् मुनिरुवाच महिषीगर्भसम्भूतो महाबलपराक्रमः । देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १ सर्वेषां लोकपालानामधिकारान्महासुरः । बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम्