दद्याद्देव्यै ततो मन्त्रं सहस्रावृत्तितो जपेत् । जपं समर्प्य चैशान्यां विकिरे दिशि संस्थिते
कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत् । रक्ष रक्षेति चोच्चार्य नालमुक्तेन वारिणा
अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम् । कर्करीं स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम्
पश्चाद्गुरुस्तु शिष्येण सह भुञ्जीत वाग्यतः । तस्यां रात्रौ तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः
श्रीनारायण उवाच ततः कुण्डस्य संस्कारं स्थण्डिलस्य च वा मुने । प्रवक्ष्यामि समासेन यथाविधि विधानतः
मूलमन्त्रं समुच्चार्य वीक्षयेदस्त्रमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तेनैव कवचेन तु
अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम् । प्रागग्रा उदगग्राश्च लिखेल्लेखाः समन्ततः
प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत् । आधारशक्तिमारभ्य पीठमन्त्रावसानकम्
तस्मिन्पीठे समावाह्य शिवौ परमकारणौ । गन्धाद्यैरुपचारैश्च पूजयेत्तौ समाहितः
देवीं ध्यायेदृतुस्नातां संसक्तां शङ्करेण तु । कामातुरां तयोः क्रीडां किञ्चित्कालं विभावयेत्
अथ वह्निं समादाय पात्रेण पुरतो न्यसेत् । क्रव्यादांशं परित्यज्य पूर्वोक्तैर्वीक्षणादिभिः
संस्कृत्य वह्निं रं बीजमुच्चार्य तदनन्तरम् । चैतन्यं योजयेत्तस्मिन्प्रणवेनाभिमन्त्रयेत्
सप्तवारं ततो धेनुमुद्रां सन्दर्शयेद्गुरुः । शरेण रक्षितं कृत्वा तनुत्रेणावगुण्ठयेत्
अर्चितं त्रिः परिभ्राम्य प्रादक्षिण्येन सत्तमः । कुण्डोपरि जपंस्तारं जानुस्पृष्टमहीतलः
शिवबीजधिया देव्या योनौ वह्निं विनिक्षिपेत् । आचामयेत्ततो देवं देवीं च जगदम्बिकाम्
चित्पिङ्गल हनदहपचयुग्मं ततः परम् । सर्वज्ञाज्ञापय स्वाहा मन्त्रोऽयं वह्निदीपने
अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं विश्वतोमुखम्
मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात् । ततो न्यसेद्वह्निमन्त्रं षडङ्गं देशिकोत्तमः
सहस्रार्चिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मृतः । धूमव्यापी सप्तजिह्वो धनुर्धर इति क्रमात्
जातियुक्ताः षडङ्गाः स्युः पूर्वस्थानेषु विन्यसेत् । ध्यायेद्वह्निं हेमवर्णं त्रिनेत्रं पद्मसंस्थितम्
इष्टशक्तिस्वस्तिकाभीर्धारकं मङ्गलं परम् । परिषिञ्चेत्ततः कुण्डं मेखलोपरि मन्त्रवित्
दर्भैः परिस्तरेत्पश्चात्परिधीन्विन्यसेदथ । त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम्
यन्त्रं विभावयेद्वह्नेः पूर्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वह्निं मन्त्रेणानेन वै मुने
वैश्वानर ततो जातवेदः पश्चादिहावह । लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय
वह्निजायान्तको मन्त्रस्तेन वह्निं तु पूजयेत् । मध्ये षट्स्वपि कोणेषु हिरण्या गगना तथा
रक्ता कृष्णा सुप्रभा च बहुरूपातिरक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वङ्गपूजनम्
दलेषु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणी । जातवेदाः सप्तजिह्वो हव्यवाहन एव च
अश्वोदरजसंज्ञोऽन्यः पुनर्वैश्वानराह्वयः । कौमारतेजाः स्याद्विश्वमुखो देवमुखः स्मृतः
ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः । लोकपालांश्चतुर्दिक्षु वज्राद्यायुधसंयुतान्
श्रीनारायण उवाच ततः स्रुक्स्रुवसंस्कारावाज्यसंस्कार एव च । कृत्वा होमं ततः कुर्यात्स्रुवेणादाय वै घृतम्