सर्वं देवीमयं चेदं भावयेन्मनसा किल । मूलमन्त्रं जपन्भक्त्या प्रोक्षणं स्याच्छराणुना
शरमन्त्रं समुच्चार्य ताडयेन्मण्डपक्षमाम् । हुंमन्त्रं तु समुच्चार्य कुर्यादभ्युक्षणं ततः
धूपयेदन्तरं धूपैर्विकिरान् विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः
ईशानदिशि तत्पुञ्जं कृत्वा संस्थापयेन्मुने । पुण्याहवाचनं कृत्वा दीनानाथांश्च तोषयेत्
विशेन्मृद्वासने पश्चान्नमस्कृत्य गुरुं निजम् । प्राङ्मुखो विधिवद्ध्यात्वा देयमन्त्रस्य देवताम्
भूतशुद्ध्यादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना । ऋष्यादिन्यासकं कुर्याद्देयमन्त्रस्य वै मुने
न्यसेन्मुनिं तु शिरसि मुखे छन्दः समीरितम् । देवतां हृदयाम्भोजे गुह्ये बीजं तु पादयोः
शक्तिं विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बन्धं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः
प्राणायामं ततः कृत्वा मूलमन्त्रमनुस्मरन् । मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते
ॐ अं नम इति प्रोच्य न्यसेच्छिरसि मन्त्रवित् । एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने
मूलमन्त्रं षडङ्गं च न्यसेदङ्गेषु सत्तमः । अङ्गुष्ठादिष्वङ्गुलीषु हृदयादिषु च क्रमात्
नमः स्वाहावषड्युक्तैर्हुंवौषट्फट्पदान्वितैः । प्रणवादियुतैर्मन्त्रैः षड्भिरेव षडङ्गकम्
वर्णन्यासादिकं पश्चान्मूलमन्त्रस्य योजयेत् । स्थानेषु तत्तत्कल्पोक्तेष्विति न्यासविधिः स्मृतः
ततो निजे शरीरेऽस्मिंश्चिन्तयेदासनं शुभम् । दक्षांसे च न्यसेद्धर्मं वामांसे ज्ञानमेव च
वामोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम्
वामपार्श्वे नाभिदेशे दक्षपार्श्वे तथा पुनः । नञादीश्चापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेत्
पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम । अधर्माद्यास्तु गात्राणि स्मृतानि मुनिपुङ्गवैः
मध्येऽनन्तं हृदि स्थाने न्यसेन्मृद्वासने स्थले । प्रपञ्चपद्मं विमलं तस्मिन्सूर्येन्दुपावकान्
न्यसेत्कलायुतान्मन्त्री संक्षेपात्ता वदाम्यहम् । सूर्यस्य द्वादश कलास्ता इन्दोः षोडश स्मृताः
दश वह्नेः कलाः प्रोक्तास्ताभिर्युक्तांस्तु तान्स्मरेत् । सत्त्वं रजस्तमश्चैव न्यसेत्तेषामथोपरि
आत्मानमन्तरात्मानं परमात्मानमेव च । ज्ञानात्मानं न्यसेद्विद्वानित्थं पीठस्य कल्पना
अमुकासनाय नम इति मन्त्रेण साधकः । आसनं पूजयित्वा तु तस्मिन्ध्यायेत्पराम्बिकाम्
कल्पोक्तविधिना मन्त्री देयमन्त्रस्य देवताम् । मानसैरुपचारैश्च पूजयेत्तां यथाविधि
मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः । याभिर्विरचिताभिस्तु मोदो देव्यास्तु जायते
श्रीनारायण उवाच ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम् । चतुरस्रयुतं सम्यङ्मध्ये मण्डलमालिखेत्
मध्ये त्रिकोणं संलिख्य शङ्खमुद्रां प्रदर्शयेत् । षडङ्गानि च षट्कोणेष्वर्चयेत्कुसुमादिभिः
अग्न्यादिषु तु कोणेषु षडङ्गार्चनमाचरेत् । आधारपात्रमादाय शङ्खस्य मुनिसत्तम
अस्त्रमन्त्रेण सम्प्रोक्ष्य स्थापयेत्तत्र मण्डले । मं वह्निमण्डलायोक्त्वा ततो दशकलात्मने
अमुकदेव्या अर्घ्यपात्रस्थानाय नम इत्यपि । मन्त्रोऽयमुक्तः शङ्खस्याप्याधारस्थापने बुधैः
आधारे पूर्वमारभ्य प्रदक्षिणक्रमेण तु । दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः