वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया । विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी । वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा
वासवी वामजननी वैकुण्ठनिलया वरा । व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता
शाकम्भरी शिवा शान्ता शारदा शरणागतिः । शातोदरी शुभाचारा शुम्भासुरविमर्दिनी
शोभावती शिवाकारा शङ्करार्धशरीरिणी । शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शुद्धा शबरी शुकवाहना
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी । शर्वाणी शर्वरीवन्द्या षड्भाषा षड्ऋतुप्रिया
षडाधारस्थिता देवी षण्मुखप्रियकारिणी । षडङ्गरूपसुमतिसुरासुरनमस्कृता
सरस्वती सदाधारा सर्वमङ्गलकारिणी । सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा । सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा
सप्तर्षिमण्डलगता सोममण्डलवासिनी । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । सरघा सूर्यतनया सुकेशी सोमसंहतिः
हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी । क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा
गायत्री चैव सावित्री पार्वती च सरस्वती । वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद । पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम्
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि । अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह
जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै । भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत्
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् । पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम्
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् । रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात्
बह्महत्यासुरापानसुवर्णस्तेयिनो नराः । गुरुतल्पगतो वापि पातकान्मुच्यते सकृत्
असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः । पाखण्डानृतमुख्येभ्यः पठनादेव मुच्यते
इदं रहस्यममलं मयोक्तं पद्मजोद्भव । ब्रह्मसायुज्यदं नॄणां सत्यं सत्यं न संशयः
मन्त्रदीक्षाविधिवर्णनम् नारद उवाच श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम् । स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम्
अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमन्त्रेऽधिकारिता
ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तथैव च । सामान्यविधिना सर्वं विस्तरेण वद प्रभो
श्रीनारायण उवाच शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत्
दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या । सैव दीक्षेति सम्प्रोक्ता वेदतन्त्रविशारदैः
अवश्यं सा तु कर्तव्या यतो बहुफला मता । गुरुशिष्यावुभावत्राप्यतिशुद्धावपेक्षितौ