यकारादिहकारान्ता याजुषी यज्ञरूपिणी । यामिनी योगनिरता यातुधानभयङ्करी
रुक्मिणी रमणी रामा रेवती रेणुका रतिः । रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया
रोहिणी राज्यदा रेवा रमा राजीवलोचना । राकेशी रूपसम्पन्ना रत्नसिंहासनस्थिता
रक्तमाल्याम्बरधरा रक्तगन्धानुलेपना । राजहंससमारूढा रम्भा रक्तबलिप्रिया
रमणीययुगाधारा राजिताखिलभूतला । रुरुचर्मपरीधाना रथिनी रत्नमालिका
रोगेशी रोगशमनी राविणी रोमहर्षिणी । रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा । लज्जाधिदेवता लोला ललिता लिङ्गधारिणी
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता । लज्जा लम्बोदरी देवी ललना लोकधारिणी
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः । वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी
विनता व्योममध्यस्था वारिजासनसंस्थिता । वारुणी वेणुसम्भूता वीतिहोत्रा विरूपिणी
वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया । विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी । वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा
वासवी वामजननी वैकुण्ठनिलया वरा । व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता
शाकम्भरी शिवा शान्ता शारदा शरणागतिः । शातोदरी शुभाचारा शुम्भासुरविमर्दिनी
शोभावती शिवाकारा शङ्करार्धशरीरिणी । शोणा शुभाशया शुभ्रा शिरःसन्धानकारिणी
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शुद्धा शबरी शुकवाहना
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी । शर्वाणी शर्वरीवन्द्या षड्भाषा षड्ऋतुप्रिया
षडाधारस्थिता देवी षण्मुखप्रियकारिणी । षडङ्गरूपसुमतिसुरासुरनमस्कृता
सरस्वती सदाधारा सर्वमङ्गलकारिणी । सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा । सर्वैश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा
सप्तर्षिमण्डलगता सोममण्डलवासिनी । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता
सर्वोत्तुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । सरघा सूर्यतनया सुकेशी सोमसंहतिः
हिरण्यवर्णा हरिणी ह्रींकारी हंसवाहिनी । क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा
गायत्री चैव सावित्री पार्वती च सरस्वती । वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका
इति साहस्रकं नाम्नां गायत्र्याश्चैव नारद । पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम्
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि । अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह
जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै । भ्रष्टेभ्यः साधकेभ्यश्च बान्धवेभ्यो न दर्शयेत्
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति
इदं रहस्यं परमं गुह्याद्गुह्यतरं महत् । पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम्