पुराणी पौरुषी पुण्या पुण्डरीकनिभेक्षणा । पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी
पावनी पादसहिता पेशला पवनाशिनी । प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी । पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा । प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी । पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा । पुण्डरीकपुरावासा पुण्डरीकसमानना
पृथुजङ्घा पृथुभुजा पृथुपादा पृथूदरी । प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः । पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्जरस्थिता
परमाया परज्योतिः परप्रीतिः परागतिः । पराकाष्ठा परेशानी पावनी पावकद्युतिः
पुण्यभद्रा परिच्छेद्या पुष्पहासा पृथूदरी । पीताङ्गी पीतवसना पीतशय्या पिशाचिनी
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया । पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता । पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा । पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी । पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी
पुण्यप्रजा पारदात्री परमार्गैकगोचरा । प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः । फणीन्द्रभोगशयना फणिमण्डलमण्डिता
बालबाला बहुमता बालातपनिभांशुका । बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया । बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता । बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी
बालाकिनी बिलाहारा बिलवासा बहूदका । बहुनेत्रा बहुपदा बहुकर्णावतंसिका
बहुबाहुयुता बीजरूपिणी बहुरूपिणी । बिन्दुनादकलातीता बिन्दुनादस्वरूपिणी
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी । बृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा । बद्धपद्मासनासीना बिल्वपत्रतलस्थिता
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा । बाला बाणासनवती वडवानलवेगिनी
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी । भवानी भीषणवती भाविनी भयहारिणी
भद्रकाली भुजङ्गाक्षी भारती भारताशया । भैरवी भीषणाकारा भूतिदा भूतिमालिनी
भामिनी भोगनिरता भद्रदा भूरिविक्रमा । भूतवासा भृगुलता भार्गवी भूसुरार्चिता
भागीरथी भोगवती भवनस्था भिषग्वरा । भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा
भर्गात्मिका भीमवती भवबन्धविमोचिनी । भजनीया भूतधात्रीरञ्जिता भुवनेश्वरी