तदा स समरे राजा सुरथः शत्रुभिर्जितः । अमात्यैर्मन्त्रिभिश्चैव तस्य कोशगतं धनम्
हृतं सर्वमशेषेण तदातप्यत भूमिपः । निष्कासितश्च नगरात्स राजा परमद्युतिः
जगामाश्वमथारुह्य मृगयामिषतो वनम् । एकाकी विजनेऽरण्ये बभ्रामोद्भ्रान्तमानसः
मुनेः कस्यचिदागत्य स्वाश्रमं शान्तमानसः । प्रशान्तजन्तुसंयुक्तं मुनिशिष्यगणैर्युतम्
उवास कञ्चित्कालं स राजा परमशोभने । आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेधसः
एकदा स महीपालो मुनिं पूजावसानके । काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः
मुने मम मनोदुःखं बाधते चाधिसम्भवम् । ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च सन्ततम्
शत्रुभिर्निर्जितस्यापि हृतराज्यस्य सर्वशः । तथापि तेषु मनसि ममत्वं जायते स्फुटम्
किं करोमि क्व गच्छामि कथं शर्म लभे मुने । त्वदनुग्रहमाशासे वद वेदविदां वर
मुनिरुवाच आकर्णय महीपाल महाश्चर्यकरं परम् । देवीमाहात्म्यमतुलं सर्वकामप्रदं परम्
जगन्मयी महामाया विष्णुब्रह्महरोद्भवा । सा बलादपहृत्यैव जन्तूनां मानसानि हि
मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप । सा सृजत्यखिलं विश्वं सा पालयति सर्वदा
संहारे हररूपेण संहरत्येव भूमिप । कामदात्री महामाया कालरात्रिर्दुरत्यया
विश्वसंहारिणी काली कमला कमलालया । तस्यां सर्वं जगज्जातं तस्यां विश्वं प्रतिष्ठितम्
लयमेष्यति तस्यां च तस्मात्सैव परात्परा । तस्या देव्याः प्रसादश्च यस्योपरि भवेन्नृप । स एव मोहमत्येति नान्यथा धरणीपते
देवीमाहात्म्ये मधुकैटभवधवर्णनम् राजोवाच का सा देवी त्वया प्रोक्ता ब्रूहि कालविदां वर । का मोहयति सत्त्वानि कारणं किं भवेद् द्विज
कस्मादुत्पद्यते देवी किंरूपा सा किमात्मिका । सर्वमाख्याहि भूदेव कृपया मम सर्वतः
मुनिरुवाच राजन् देव्याः स्वरूपं ते वर्णयामि निशामय । यथा चोत्पतिता देवी येन वा सा जगन्मयी
यदा नारायणो देवो विश्वं संहृत्य योगराट् । आस्तीर्य शेषं भगवान् समुद्रे निद्रितोऽभवत्
तदा प्रस्वापवशगो देवदेवो जनार्दनः । तत्कर्णमलसञ्जातौ दानवौ मधुकैटभौ
ब्रह्माणं हन्तुमुद्युक्तौ दानवौ घोररूपिणौ । तदा कमलजो देवो दृष्ट्वा तौ मधुकैटभौ
निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम् । निद्रितो भगवानीशो दानवौ च दुरासदौ
किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम् । एवं चिन्तयतस्तस्य पद्ययोनेर्महात्मनः
बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी । यस्या वशं गतो देवो निद्रितो भगवान् हरिः
तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् । ब्रह्मोवाच देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे
जगन्माये महामाये समुद्रशयने शिवे । त्वदाज्ञावशगाः सर्वे स्वस्वकार्यविधायिनः
कालरात्रिर्महारात्रिर्मोहरात्रिर्मदोत्कटा । व्यापिनी वशगा मान्या महानन्दैकशेवधिः
महनीया महाराध्या माया मधुमती मही । परापराणां सर्वेषां परमा त्वं प्रकीर्तिता
लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारुण्यविग्रहा । कमनीया जगद्वन्द्या जाग्रदादिस्वरूपिणी
परमा परमेशानी परानन्दपरायणा । एकाप्येकस्वरूपा च सद्वितीया द्वयात्मिका