गुहावासा गुणवती गुरुपापप्रणाशिनी । गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनी
गिरिजा गुह्यमातङ्गी गरुडध्वजवल्लभा । गर्वापहारिणी गोदा गोकुलस्था गदाधरा
गोकर्णनिलयासक्ता गुह्यमण्डलवर्तिनी । घर्मदा घनदा घण्टा घोरदानवमर्दिनी
घृणिमन्त्रमयी घोषा घनसम्पातदायिनी । घण्टारवप्रिया घ्राणा घृणिसन्तुष्टकारिणी
घनारिमण्डला घूर्णा घृताची घनवेगिनी । ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी
चटुला चण्डिका चित्रा चित्रमाल्यविभूषिता । चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा
चूलिका चित्रवस्त्रान्ता चन्द्रमःकर्णकुण्डला । चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी
चन्द्रिका चन्द्रधात्री च चौरी चौरा च चण्डिका । चञ्चद्वाग्वादिनी चन्द्रचूडा चोरविनाशिनी
चारुचन्दनलिप्ताङ्गी चञ्चच्चामरवीजिता । चारुमध्या चारुगतिश्चन्दिला चन्द्ररूपिणी
चारुहोमप्रिया चार्वाचरिता चक्रबाहुका । चन्द्रमण्डलमध्यस्था चन्द्रमण्डलदर्पणा
चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी । चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया
चोदयित्री चिरप्रज्ञा चातका चारुहेतुकी । छत्रयाता छत्रधरा छाया छन्दःपरिच्छदा
छायादेवीच्छिद्रनखा छन्नेन्द्रियविसर्पिणी । छन्दोऽनुष्टुप्प्रतिष्ठान्ता छिद्रोपद्रवभेदिनी
छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया । जननी जन्मरहिता जातवेदा जगन्मयी
जाह्नवी जटिला जेत्री जरामरणवर्जिता । जम्बूद्वीपवती ज्वाला जयन्ती जलशालिनी
जितेन्द्रिया जितक्रोधा जितामित्रा जगत्प्रिया । जातरूपमयी जिह्वा जानकी जगती जरा
जनित्री जह्नुतनया जगत्त्रयहितैषिणी । ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा
जिताक्रान्तमयी ज्वाला जाग्रती ज्वरदेवता । ज्वलन्ती जलदा ज्येष्ठा ज्याघोषास्फोटदिङ्मुखी
जम्भिनी जृम्भणा जृम्भा ज्वलन्माणिक्यकुण्डला । झिंझिका झणनिर्घोषा झंझामारुतवेगिनी
झल्लरीवाद्यकुशला ञरूपा ञभुजा स्मृता । टङ्कबाणसमायुक्ता टङ्किनी टङ्कभेदिनी
टङ्कीगणकृताघोषा टङ्कनीयमहोरसा । टङ्कारकारिणी देवी ठठशब्दनिनादिनी
डामरी डाकिनी डिम्भा डुण्डुमारैकनिर्जिता । डामरीतन्त्रमार्गस्था डमड्डमरुनादिनी
डिण्डीरवसहा डिम्भलसत्क्रीडापरायणा । ढुण्ढिविघ्नेशजननी ढक्काहस्ता ढिलिव्रजा
नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी । त्रिगुणा त्रिपदा तन्त्री तुलसीतरुणातरुः
त्रिविक्रमपदाक्रान्ता तुरीयपदगामिनी । तरुणादित्यसङ्काशा तामसी तुहिना तुरा
त्रिकालज्ञानसम्पन्ना त्रिवेणी च त्रिलोचना । त्रिशक्तिस्त्रिपुरा तुङ्गा तुरङ्गवदना तथा
तिमिङ्गिलगिला तीव्रा त्रिस्रोता तामसादिनी । तन्त्रमन्त्रविशेषज्ञा तनुमध्या त्रिविष्टपा
त्रिसन्ध्या त्रिस्तनी तोषासंस्था तालप्रतापिनी । ताटङ्किनी तुषाराभा तुहिनाचलवासिनी
तन्तुजालसमायुक्ता तारहारावलिप्रिया । तिलहोमप्रिया तीर्था तमालकुसुमाकृतिः
तारका त्रियुता तन्वी त्रिशङ्कुपरिवारिता । तलोदरी तिलाभूषा ताटङ्कप्रियवाहिनी