नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये
तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते । इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम्
महापापप्रशमनं महासिद्धिविधायकम् । य इदं कीर्तयेत्स्तोत्रं सन्ध्याकाले समाहितः
अपुत्रः प्राप्नुयात्युत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत्
भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत्
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं सत्यं च नारद
शृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम्
गायत्रीसहस्रनामस्तोत्रवर्णनम् नारद उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम्
सर्वपापहरं देव येन विद्या प्रवर्तते । केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम्
ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम् । ऐहिकामुष्मिकफलं केन वा पद्मलोचन
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः । श्रीनारायण उवाच साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्वयानघ
शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्रकम् । नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम्
सृष्ट्यादौ यद्भगवता पूर्वं प्रोक्तं ब्रवीमि ते । अष्टोत्तरसहस्रस्य ऋषिर्ब्रह्मा प्रकीर्तितः
छन्दोऽनुष्टुप् तथा देवी गायत्री देवता स्मृता । हलो बीजानि तस्यैव स्वराः शक्तय ईरिताः
अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे
अचिन्त्यलक्षणाव्यक्ताप्यर्थमातृमहेश्वरी । अमृतार्णवमध्यस्थाप्यजिता चापराजिता
अणिमादिगुणाधाराप्यर्कमण्डलसंस्थिता । अजराजापराधर्मा अक्षसूत्रधराधरा
अकारादिक्षकारान्ताप्यरिषड्वर्गभेदिनी । अञ्जनाद्रिप्रतीकाशाप्यञ्जनाद्रिनिवासिनी
अदितिश्चाजपाविद्याप्यरविन्दनिभेक्षणा । अन्तर्बहिःस्थिताविद्याध्वंसिनी चान्तरात्मिका
अजा चाजमुखावासाप्यरविन्दनिभानना । अर्धमात्रार्थदानज्ञाप्यरिमण्डलमर्दिनी
असुरघ्नीह्यमावास्याप्यलक्ष्मीघ्न्यन्त्यजार्चिता । आदिलक्ष्मीश्चादिशक्तिराकृतिश्चायतानना
आदित्यपदवीचाराप्यादित्यपरिसेविता । आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी
आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता । आधारनिलयाधारा चाकाशान्तनिवासिनी
आद्याक्षरसमायुक्ता चान्तराकाशरूपिणी । आदित्यमण्डलगता चान्तरध्वान्तनाशिनी
इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा । इरावती चेन्द्रपदा चेन्द्राणी चेन्दुरूपिणी
इक्षुकोदण्डसंयुक्ता चेषुसन्धानकारिणी । इन्द्रनीलसमाकारा चेडापिङ्गलरूपिणी
इन्द्राक्षी चेश्वरी देवी चेहात्रयविवर्जिता । उमा चोषा ह्युडुनिभा उर्वारुकफलानना