श्रीनारायण उवाच अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा । पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते
सर्वान्कामानवाप्नोति देवीरूपश्च जायते । गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः
ऋषयो ऋग्यजुःसामाथर्वश्छन्दांसि नारद । ब्रह्मरूपा देवतोक्ता गायत्री परमा कला
तद्बीजं भर्ग इत्येषा शक्तिरुक्ता मनीषिभिः । कीलकं च धियः प्रोक्तं मोक्षार्थे विनियोजनम्
चतुर्भिर्हृदयं प्रोक्तं त्रिभिर्वर्णेः शिरः स्मृतम् । चतुर्भिः स्याच्छिखा पश्चात् त्रिभिस्तु कवचं स्मृतम्
चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् । अथ ध्यानं प्रवक्ष्यामि साधकाभीष्टदायकम्
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे
गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मसन्ध्या तु मे पश्चादुत्तरायां सरस्वती
पार्वती मे दिशं रक्षेत्पावकीं जलशायिनी । यातुधानी दिशं रक्षेद्यातुधानभयङ्करी
पावमानी दिशं रक्षेत्पवमानविलासिनी । दिशं रौद्री च मे पातु रुद्राणी रुद्ररूपिणी
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेत्सर्वाङ्गं भुवनेश्वरी
तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् । वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च
देवस्य मे तद्धृदयं धीमहीति च गल्लयोः । धियः पदं च मे नेत्रे यः पदं मे ललाटकम्
नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् । तत्पदं पातु मूर्धानं सकारः पातु भालकम्
चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः । नासापुटं वकारार्णो रेकारस्तु मुखे तथा
णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् । आस्यमध्ये भकारार्णो र्गोकारश्चिबुके तथा
देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम् । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम्
मकारो हृदयं रक्षेद्धिकार उदरे तथा । धिकारो नाभिदेशे तु योकारस्तु कटिं तथा
गुह्यं रक्षतु योकार ऊरू द्वौ नः पदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशकम्
दकारं गुल्फदेशे तु यकारः पदयुग्मकम् । तकारव्यञ्जनं चैव सर्वाङ्गं मे सदावतु
इदं तु कवचं दिव्यं बाधाशतविनाशनम् । चतुःषष्टिकलाविद्यादायकं मोक्षकारकम्
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति । पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत्
गायत्रीहृदयम् नारद उवाच भगवन् देवदेवेश भूतभव्यजगत्प्रभो । कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम्
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् । यद्धारणाद्भवेत्युण्यं गायत्रीजपतोऽखिलम्
श्रीनारायण उवाच देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् । तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम्
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् । ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः
पिण्डब्रह्माण्डयोरैक्याद्भावयेत्स्वतनौ तथा । देवीरूपे निजे देहे तन्मयत्वाय साधकः
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः । ततोऽभेदाय काये स्वे भावयेद्देवता इमाः
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः
गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी । पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः