भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् । इत्येतानि च छन्दांसि कीर्तितानि महामुने
दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः । आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम्
तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् । सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम्
बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् । नवमं भगदैवत्यं दशमं चार्यमेश्वरम्
गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् । पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम्
वायव्यं पञ्चदशकं वामदैव्यं च षोडशम् । मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम्
अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् । वैष्णवं विंशतितमं वसुदैवतमीरितम्
एकविंशतिसंख्याकं द्वाविंशं रुद्रदैवतम् । त्रयोविंशं च कौबेरमाश्विनं तत्त्वसंख्यकम्
चतुर्विंशतिवर्णानां देवतानां च सङ्ग्रहः । कथितः परमश्रेष्ठो महापापैकशोधनः । यदाकर्णनमात्रेण साङ्गं जाप्यफलं मुने
गायत्रिशक्त्यादिप्रतिपादनम् श्रीनारायण उवाच वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने । वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी
प्रभावती जया शान्ता कान्ता दुर्गा सरस्वती । विद्रुमा च विशालेशा व्यापिनी विमला तथा
तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा । पद्मालया परा शोभा भद्रा च त्रिपदा स्मृता
चतुर्विंशतिवर्णानां शक्तयः समुदाहृताः । अतः परं वर्णवर्णान्व्याहरामि यथातथम्
चम्पका अतसीपुष्पसन्निभं विद्रुमं तथा । स्फटिकाकारकं चैव पद्मपुष्पसमप्रभम्
तरुणादित्यसङ्काशं शङ्खकुन्देन्दुसन्निभम् । प्रवालपद्यपत्राभं पद्मरागसमप्रभम्
इन्द्रनीलमणिप्रख्यं मौक्तिकं कुङ्कुमप्रभम् । अञ्जनाभं च रक्तं च वैदूर्यं क्षौद्रसन्निभम्
हारिद्रं कुन्ददुग्धाभं रविकान्तिसमप्रभम् । शुकपुच्छनिभं तद्वच्छतपत्रनिभं तथा
केतकीपुष्पसंकाशं मल्लिकाकुसुमप्रभम् । करवीरश्च इत्येते क्रमेण परिकीर्तिताः
वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः । पृथिव्यापस्तथा तेजो वायुराकाश एव च
गन्धो रसश्च रूपं च शब्दः स्पर्शस्तथैव च । उपस्थं पायुपादं च पाणी वागपि च क्रमात्
प्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं च ततः परम् । प्राणोऽपानस्तथा व्यानः समानश्च ततः परम्
तत्त्वान्येतानि वर्णानां क्रमशः कीर्तितानि तु । अतः परं प्रवक्ष्यामि वर्णमुद्राः कमेण तु
सुमुखं सम्पुटं चैव विततं विस्मृतं तथा । द्विमुखं त्रिमुखं चैव चतुःपञ्चमुखं तथा
षण्मुखाधोमुखं चैव व्यापकाज्जलिकं तथा । शकटं यमपाशं च ग्रथितं सन्मुखोन्मुखम्
विलम्बं मुष्टिकं चैव मत्स्यं कूर्मं वराहकम् । सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा
त्रिशूलयोनी सुरभिश्चाक्षमाला च लिङ्गकम् । अम्बुजं च महामुद्रास्तुर्यरूपाः प्रकीर्तिताः
इत्येताः कीर्तिता मुद्रा वर्णानां ते महामुने । महापापक्षयकराः कीर्तिदाः कान्तिदा मुने
गायत्रीमन्त्रकवचवर्णनम् नारद उवाच स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मम प्रभो । चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर
मुच्यते केन पुण्येन ब्रह्मरूपः कथं भवेत् । देहश्च देवतारूपो मन्त्ररूपो विशेषतः
कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम् । ऋषिश्छन्दोऽधिदैवं च ध्यानं च विधिवद्विभो