प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् । सर्वेषामेव पापानां सङ्करे सति शुद्धये
सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम्
चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता । चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु
शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यृचमवाप्नोति सर्वपापक्षयं परम्
निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् । ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते
इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा
इति संक्षेपतः प्रोक्तः सदाचारस्य संग्रहः । विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति
नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि । आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक्
आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी । इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत्
आचारवान्सदा पूतः सदैवाचारवान्मसुखी । आचारवान्सदा धन्यः सत्यं सत्यं च नारद
देवीप्रसादजनकं सदाचारविधानकम् । यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक्
सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् । तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि
गायत्रीविचारः नारद उवाच सदाचारविधिर्देव भवता वर्णितः प्रभो । तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम्
श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् । व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते
दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च । तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम्
देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् । तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर
सदाचारविधौ यश्च गायत्रीविधिरीरितः । तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम्
ये गायत्रीगता वर्णास्तत्त्वसंख्यास्त्वयेरिताः । तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने
तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो । महत्कौतूहलं मे च मानसे परिवर्तते
श्रीनारायणाय उवाच कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा । गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विजः
सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च । सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने
न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् । ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम्
यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः । हरिशङ्करकञ्जोत्थसूर्यचन्द्रहुताशनैः
अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा । छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि
वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान्
याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः । गौतमो मुद्गलश्चैव वेदव्यासश्च लोमशः
अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा । दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा
इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने । गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च
त्रिष्टुभं जगती चैव तथातिजगती मता । शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा
विराट्प्रस्तारपङ्क्तिश्च कृतिः प्रकृतिराकृतिः । विकृतिः सकृतिश्चैवाक्षरपङ्क्तिस्तथैव च