पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् । पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात्
पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् । अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात्
पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् । लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत्
नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः । नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः
मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् । कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात्
अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् । आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम्
आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत्
आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः
एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् । एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः
मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात्
रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् । यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात्
एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः । मासं शतमवाप्नोति यदिच्छेदिति कौशिकः
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात्
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् । एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः
नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् । गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम्
त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवान्देवश्चतुःसंवत्सरं जपेत्
पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् । एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात्
सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् । मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत्
एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः । बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान्
एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ये पयः परे
घृतमन्ये परे सोममपरे चरुवृत्तयः । ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि
हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः । अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः
मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात्
मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः । त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन्
ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् । द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत्
मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः
महापातकयुक्तो वा मुच्यते महतो भयात् । प्राणायामसहस्रेण ब्रह्महापि विशुध्यति
षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः
सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः
अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम्