प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा । मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम्
कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् । उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत्
पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः
तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् । अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः
सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् । यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत्
ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति । मनसैव जपेदेनां बद्धो मुच्येत बन्धनात्
भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् । भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम्
अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये । शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा
सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम्
अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः । श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात्
हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम्
समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि
श्रियमाप्नोति परमां मूलस्य शकलैरपि । समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा
शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् । लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात्
अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् । रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात्
सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् । अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत्
करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् । प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात्
सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् । समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात्
सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात्
सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् । दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा
शतं शतं च सप्ताहमपमृत्युं व्यपोहति । शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा
शतं शतं च सप्ताहमपमृत्युं व्यपोहति । न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः
शतं शतं च सप्ताहमपमृत्युं व्यपोहति । क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत्
अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते
जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् । बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम्
हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् । यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम्
अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् । अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत्
संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च । पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात्
नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् । जले भस्मशतं हुत्वा महावृष्टिं निवारयेत्