आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम् । पुरश्चर्यां ततः कुर्यात्समस्तफलभाग्भवेत्
इति ते कथितं गुह्यं पुरश्चर्याविधानकम् । एतत्परस्मै नो वाच्यं श्रुतिसारं यतः स्मृतम्
प्रातश्चिन्तनम् नारद उवाच नारायण महाभाग गायत्र्यास्तु समासतः । शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे
श्रीनारायण उवाच अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव । न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च
अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः । शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः
आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये
जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् । जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत्
कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् । सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः
सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा । क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा
सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले । क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः
प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् । तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन्
बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्ना कृत्या पापं च नश्यति
देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे । गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते
निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च । मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा
अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये । सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा
मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः
दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः । एलाचन्दनकर्पूरजातीपाटलमल्लिकाः
बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् । सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत्
सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् । स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः
दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः । प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत्
भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः
अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः । गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने
दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः
भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् । गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः
एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये
वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् । राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात्
लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः । सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये
कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः
क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति । औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत्