त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि । न बीजं वाग्भवादन्यदस्ति राजन्यनन्दन
जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम् । एतस्य जापात्पाद्मोऽपि सृष्टिकर्ता महाबलः
विष्णुर्यज्जपतः सृष्टिपालकः परिकीर्तितः । महेश्वरोऽपि संहर्ता यज्जपादभवन्नृप
लोकपालास्तथान्येऽपि निग्रहानुग्रहक्षमाः । यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः
एवं त्वमपि राजन्य महेशीं जगदम्बिकाम् । समाराध्य महर्द्धिं च लप्स्यसेऽचिरकालतः
एवं स मुनिवर्येण पुलहेन प्रबोधितः । अङ्गपुत्रस्तपस्तप्तुं जगाम विरजां नदीम्
स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः । बीजस्य पृथिवीपालः शीर्णपर्णाशनो विभुः
प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः । तृतीयेऽब्दे पवनभुक् तस्थौ स्थाणुरिवाचलः
एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः । वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता
तथा च देव्याः परमं मन्त्रं सज्जपतो रहः । प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी
तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी । उवाचाङ्गतनूजं तं प्रसन्ना ललिताक्षरम्
देव्युवाच पृथिवीपाल ते यत्स्याच्चिन्तितं परमं वरम् । तद् ब्रूहि सम्प्रदास्यामि तपसा ते सुतोषिता
चाक्षुष उवाच जानासि देवदेवेशि यत्प्रार्थ्यं मनसेप्सितम् । अन्तर्यामिस्वरूपेण तत्सर्वं देवपूजिते
तथापि मम भाग्येन जातं यत्तव दर्शनम् । ब्रवीमि देवि मे देहि राज्यं मन्वन्तराश्रितम्
देव्युवाच दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम । पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः
राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः । एवं दत्त्वा परं देवी मनवे वरमुत्तमम्
जगामादर्शनं सद्यस्तेन भक्त्या च संस्तुता । सोऽपि राजा मनुः षष्ठः प्रसादात्तु तदाश्रयात्
बभूव मनुमान्योऽसौ सार्वभौमसुखैर्वृतः । पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः
देवीभक्ताश्च शूराश्च महाबलपराक्रमाः । अन्यत्र माननीयाश्च महाराज्यसुखास्पदाः
एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः । बभूव मनुवर्योऽसौ जगामान्ते शिवापदम्
सुरथनृपतिवृमत्तवर्णनम् श्रीनारायण उवाच सप्तमो मनुराख्यातो मनुर्वैवस्वतः प्रभुः । श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम्
स च वैवस्वतमनुः परदेव्याः प्रसादतः । तथा तत्तपसा चैव जातो मन्वन्तराधिपः
अष्टमो मनुराख्यातः सावर्णिः प्रथितः क्षितौ । स जन्मान्तर आराध्य देवीं तद्वरलाभतः
जातो मन्वन्तरपतिः सर्वराजन्यपूजितः । महापराक्रमी धीरो देवीभक्तिपरायणः
नारद उवाव कथं जन्मान्तरे तेन मनुनाराधनं कृतम् । देव्याः पृथिव्युद्भवायास्तन्ममाख्यातुमर्हसि
श्रीनारायण उवाच चैत्रवंशसमुद्भूतो राजा स्वारोचिषेऽन्तरे । सुरथो नाम विख्यातो महाबलपराक्रमः
गुणग्राही धनुर्धारी मान्यः श्रेष्ठः कविः कृती । धनसंग्रहकर्ता च दाता याचकमण्डले
अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली । तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः
शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः । रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि
तदा स सुरथो नाम राजा सैन्यसमावृतः । निर्ययौ नगरात्स्वीयात्सर्वशत्रुनिबर्हणः