येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः । स स कामः समृद्ध्येत तेषां तेषां तथा तथा
तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् । पुरश्चरणमादौ च कर्मणां सिद्धिकारकम्
स्वाध्यायाभ्यसनस्यादौ प्राजापत्यं चरेद्द्विजः । केशश्मश्रुलोमनखान् वापयित्वा ततः शुचिः
तिष्ठेदहनि रात्रौ तु शुचिरासीत वाग्यतः । सत्यवादी पवित्राणि जपेद्व्याहृतयस्तथा
ज्येकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम् । आपो हि ष्ठेति सूक्तं च पवित्रं पापनाशनम्
पुनन्त्यः स्वस्तिमत्यश्च पावमान्यस्तथैव च । सर्वत्रैतत्प्रयोक्तव्यमादावन्ते च कर्मणाम्
आसहस्रादाशताद्वाप्यादशादथवा जपेत् । अकारं व्याहृतीस्तिस्रः सावित्रीमथवायुतम्
तर्पयित्वाद्भिराचार्यानृषींश्छन्दांसि देवताः । अनार्येण न भाषेत शूद्रेणापि न गर्हितैः
नापि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः । न देवब्राह्मणद्विष्टैर्नाचार्यगुरुनिन्दकैः
न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन । कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः
प्राजापत्यस्य कृच्छ्रस्य तथा सान्तपनस्य च । पराकस्य च कृच्छ्रस्य विधिश्चान्द्रायणस्य च
पञ्चभिः पातकैः सर्वैर्दुष्कृतैश्च प्रमुच्यते । तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात्
त्रिभिश्चान्द्रायणैः पूतो ब्रह्मलोकं समश्नुते । अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा
छन्दांसि दशभिर्ज्ञात्वा सर्वान्कामान्समश्नुते । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम्
त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् । एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत्
त्र्यहं चोपवसेदित्थमतिकृच्छ्रं चरेद्द्विजः । एवमेव त्रिभिर्युक्तं महासान्तपनं स्मृतम्
तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः
नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः । यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम्
पराको नाम कृच्छ्रोऽयं सर्वपापप्रणोदनः । एकैकं तु ग्रसेत्पिण्डं कृष्णे शुक्ले च वर्धयेत्
अमावास्यां न भुञ्जीत एवं चान्द्रायणे विधिः । उपस्पृश्य त्रिषवणमेतच्चान्द्रायणं स्मृतम्
चतुरः प्रातरश्नीयाद्विप्रः पिण्डात्कृताह्निकः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम्
अष्टावष्टौ समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं व्रतम्
एतद्रुद्रास्तथादित्या वसवश्च चरन्ति हि । सर्वे कुशलिनो देवा मरुतश्च भुवा सह
एकैकं सप्तरात्रेण पुनाति विधिवत्कृतम् । त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा
एकैकं सप्तरात्रेण शुध्यत्येव न संशयः । एभिर्व्रतैर्विपूतात्मा कर्म कुर्वीत नित्यशः
एवं शुद्धस्य कर्माणि सिध्यन्त्येव न संशयः । शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः
इष्टान्कामांस्ततः सर्वान्सम्प्राप्नोति न संशयः । त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा
त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत् । एवं विधानं कथितं पुरश्चर्याफलप्रदम्
गायत्र्याश्च पुरश्चर्यां सर्वकामप्रदायिनी । कथिता तव देवर्षे महापापविनाशिनी