ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत्
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ
सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत्
पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा
नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम्
चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम । नत्वा नैव च भाषेत जपहोमार्चनादिषु
मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते । राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम्
ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः
रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् । ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम्
अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् । ते देवानामृषीणां च पितॄणामृणिनस्तथा
ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत्
क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् । भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत्
लवणं क्षारमम्लं च गृञ्जनं कांस्यभोजनम् । ताम्बूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम्
श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् । वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः
गमयेद्देवतापूजास्तोत्रागमविलोकनैः । भूशय्या ब्रह्मचारित्वं मौनचर्या तथैव च
नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानमानन्दस्तुतिकीर्तनम्
नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः
नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत् । देवताप्रतिमादौ वा वह्नौ वाभ्यर्च्य तन्मुखः
स्नानपूजाजपध्यानहोमतर्पणतत्परः । निष्कामो देवतायां च सर्वकर्मनिवेदकः
एवमादींश्च नियमान्पुरश्चरणकृच्चरेत् । तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः
तपस्यध्ययने युक्तो भवेद्भूतानुकम्पकः । तपसा स्वर्गमाप्नोति तपसा विन्दते महत्
तपोयुक्तस्य सिध्यन्ति कर्माणि नियतात्मनः । विद्वेषणं संहरणं मारणं रोगनाशनम्