उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् । सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः
व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः । ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम्
व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि । उदानमन्त्रस्य तथा शक्रगोपसवर्णकः
ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता । बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत्
वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः
ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता । पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत्
पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् । वैश्वानरो महानग्निर्ऋषिर्वै परिकीर्तितः
गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि । स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत्
इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते । प्राणाग्निहोत्रविद्येयं संक्षेपात्कथिता हि ते
तप्तकृच्छ्रादिलक्षणवर्णनम् श्रीनारायण उवाच अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः
ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत्
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ
सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत्
पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा
नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितत्व्रात्यनास्तिकोच्छिष्टभाषणम्
चाण्डालभाषणं चैव न कुर्यान्मुनिसत्तम । नत्वा नैव च भाषेत जपहोमार्चनादिषु
मैथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत् । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते । राज्ञश्चैव गृहस्थस्य ब्रह्मचर्यमुदाहृतम्
ऋतुस्तातेषु दारेषु सङ्गतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्ट्वा प्रयत्नतः
रात्रौ तु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत् । ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि
तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम्
अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम् । ते देवानामृषीणां च पितॄणामृणिनस्तथा
ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरेत्
क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् । भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचान्द्रायणादिकृत्