वायुरज्ज्वा मथेदग्निं चक्षुरध्वर्युरेव च । तर्जनीमध्यमाङ्गुष्ठैः प्राणस्यैवाहुतिं क्षिपेत्
मध्यमानामिकाङ्गुष्ठैरपानस्याहुतिं क्षिपेत् । कनिष्ठानामिकाङ्गुष्ठैर्व्यानस्य तदनन्तरम्
कनिष्ठातर्जन्यङ्गुष्ठैरुदानस्याहुतिं क्षिपेत् । सर्वाङ्गुलैर्गृहीत्वान्नं समानस्याहुतिं क्षिपेत्
स्वाहान्तान्प्रणवाद्यांश्च नाममन्त्रांश्च वै पठेत् । मुखे चाहवनीयस्तु हृदये गार्हपत्यकः
नाभौ च दक्षिणाग्निः स्यादधः सभ्यावसथ्यकौ । वाग्घोता प्राण उद्गाता चक्षुरध्वर्युरेव च
मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीध्रस्थान एव च । अहङ्कारः पशुश्चात्र प्रणवः पय ईरितम्
बुद्धिश्च पत्नी सम्प्रोक्ता यदधीनो गृहाश्रमी । उरो वेदिस्तु रोमाणि दर्भाः स्युः स्रुक्स्रुवौ करौ
प्राणमन्त्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः । देवतादित्य एवात्र गायत्रीच्छन्द उच्यते
प्राणाय च तथा स्वाहा मन्त्रान्ते कीर्तयेदपि । इदमादित्यदेवाय न ममेति वदेदपि
अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः । श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता
उष्णिक्छन्दस्तथापानाय स्वाहेत्यपि कीर्तयेत् । सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः
व्यानमन्त्रस्य चाख्यातोऽम्बुजवर्णहुताशनः । ऋषिरुक्तो देवताग्निरनुष्टुप् छन्द ईरितम्
व्यानाय च तथा स्वाहाग्नयेदं न ममेत्यपि । उदानमन्त्रस्य तथा शक्रगोपसवर्णकः
ऋषिरग्निः समाख्यातो वायुर्वै देवता स्मृता । बृहतीच्छन्द आख्यातमुदानाय च पूर्ववत्
वायवे चेदं न मम एवं चैवोच्चरेद् द्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः
ऋषिरग्निः समाख्यातः पर्जन्यो देवता मता । पङ्क्तिश्छन्दः समाख्यातं समानाय च पूर्ववत्
पर्जन्यायेदमित्युक्त्वा षष्ठीं चैवाहुतिं क्षिपेत् । वैश्वानरो महानग्निर्ऋषिर्वै परिकीर्तितः
गायत्रीच्छन्द आख्यातं देवस्त्वात्मा भवेदपि । स्वाहान्तो मन्त्र आख्यातः परमात्मन उच्चरेत्
इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधिं कृत्वा ब्रह्मभूयाय कल्पते । प्राणाग्निहोत्रविद्येयं संक्षेपात्कथिता हि ते
तप्तकृच्छ्रादिलक्षणवर्णनम् श्रीनारायण उवाच अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादन्ते विचक्षणः
ये के चास्मत्कुले जाता दासदास्योऽनकाङ्क्षिणः । ते सर्वे तृप्तिमायान्तु मया दत्तेन भूतले
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् । अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः
उच्छिष्टस्तेन संस्पृष्टः शुना शूद्रेण च द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति
अनुच्छिष्टेन संस्पृष्टैः स्नानमेव विधीयते । एकाहुतिप्रदानेन कोटियज्ञफलं लभेत्
पञ्चभिः पञ्चकोटीनां तदनन्तफलं स्मृतम् । प्राणाग्निहोत्रवेत्रे यो ह्यन्नदानं करोति च
दातुश्चैव तु यत्पुण्यं भोक्तुश्चैव तु यत्फलम् । प्राप्नुतस्तौ तदेव द्वावुभौ तौ स्वर्गगामिनौ
सपवित्रकरो भुङ्क्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पञ्चगव्यसमं भवेत्
पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते
अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शान्तचेतसा